पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
[खण्डः ३१
वेदान्तसारः

चरंणादिसंस्थानविशेषलक्षणानि पद्मस्वस्तिकादीन्यासनानि । रेचकपूरककुम्भकलक्षणाः प्राणनिग्रहोपायाः प्राणायामाः ।


मनन्यधीः। पूरयेद्वामया तद्वकुम्भयेच्च सुषुम्णया । यावच्छ्वासं जितश्वासो भवेन्मासजितेन्द्रिय” इति । प्रणवोद्धारराहित्येनोक्तरेचकपूरककुम्भकक्रमेण प्राणनिरोधोऽगर्भप्राणायामः । £s रेचयेत्षोडशेनैव तत्रैगुण्येन पूरयेत् । कुम्भ येच चतुःषष्ट्या प्रणवार्थमनुस्मरन्’’ इति वचनात्षोडशसंख्याकं प्रणवं मनसा जपन्दक्षिणया वायुं विरेच्य द्वात्रिंशसंख्याकं प्रणवं मनसा समुच्चरन्वामया वायुमापूर्यं चतुःषष्टिसंख्याकं प्रणवं मनसा जपंस्तदर्थं चाकारोकारमकारार्ध मात्रात्मकसार्धत्रिवलयाकारं कुण्डलिनीरूपं चिदानन्दकन्दं च मूलादि ब्रह्म रन्ध्रान्तमनुसन्दधत्सुषुम्णया चित्तमपि तदेकप्रवणं कुर्वन्यावच्छ्वासं कुम्भयेत् तदुक्तमाचार्यैः -‘षोडशतद्विगुणचतुःषष्टि च मात्राणि तानि च क्रमशः । रेचकपूरककुम्भकभेदैस्त्रिविधः प्रभञ्जनायाम” इति प्राणायामप्रकारः । क्रमप्राप्तं प्रत्याहारं निरूपयति इन्द्रियाणामिति । श्रोत्रादीनामिन्द्रियाणां स्वस्वविषयेभ्यः शब्दादिभ्यः सकाशापाषाणोपरिप्रयुक्तः शरसंघातस्तद्वत्प्रत्या- वर्तनं प्रत्याहारः । नन्विन्द्रियाणां स्वस्वविषयेभ्यो निवर्तनं प्रत्याहार इत्युक्तं तन्न सम्भवति शब्दादिविषयाणां सुखसाधनत्वेन वैषयिकसुखव्यतिरिक्तनिरतिशया नन्दसद्भावे प्रमाणाभावात्दैरण्यगर्भाधमृतभोगस्येश्वरेणापि त्यक्तुमशक्यत्वादिति चेन्न मूढैः कर्मजडैर्विषयलम्पटैस्त्यक्तुमशक्यत्वेऽपि शुद्धान्तःकरणेन संसा- राविद्यकत्वदर्शिना विषयदोषदर्शनेन तुच्छीकृतशब्दादिविषयप्रपञ्चेन पुरुषो त्तमेन त्यक्तुं शक्यत्वात् । अन्यथा संसार एव लोलुप्येत । ‘तस्माभ्यासमेषां तपसामतिरिक्तमाहुः, ‘‘एतमेव लोकमीप्सन्तः प्रव्राजिनः प्रव्रजन्ति99 , ‘‘ऐतत्सर्वं भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत्’ ”, “त्यागेनैके अमृत" त्वमानशुः”, ‘ब्रह्मचर्यादेव प्रव्रजेत्’, ‘यदहरेव विरजेत्तदहरेव प्रव्रजेद्व- नाद्गृहाद्वा’, ‘सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज’, ‘‘संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्यकृतोद्वाहाः परं वैराग्यमाश्रिताः । प्रत्यग्वि विदिषासिषद्ध्ये वेदानुवचनादयः । ब्रह्मावाप्त्यै श्रुतत्यागमीप्सन्तीति श्रुतेर्बलात्’, इत्यादिश्रुतिस्मृतिभिस्तथा ‘आनन्दो ब्रह्मेति व्यजानात्’, ‘ऍतस्यैवानन्दस्या-

1. पझक all but DEBK. १. Mohandra24. 1. . २. Burh, 4. 4. 22 (Madhyondina). ३. Jabal. 6. ४. Malaw. 10. 5. ५. Jabda, 4. ६. Iden. ७. GE xviii. 66. ८. S3e Notes , ९.. T¢i% 8. 6. 1. १९: B%. 4, 3. 32.