पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
[खण्डः ३२, ३३
वेदान्तसारः

रागादिवासनया स्तब्धीभावादखण्डवस्त्वनवलम्बनं कषायः। अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पकानन्दास्वा दनं रसास्वादः। समाध्यारम्भसमये सविकल्पकानन्दास्वादनं वा ॥ ३२ ॥

 अनेन विघ्नचतुष्टयेन विरहितं चित्तं निर्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पकः समाधि रित्युच्यते । तदुक्तम्


पक्षिवत्पुनर्बाह्यविषयग्रहणाय प्रवृत्तिर्विक्षेप इत्यर्थः । तृतीयं विघ्नमाह लय विक्षेपेति । रागादयस्त्रिविधा बाह्या आभ्यन्तरा वासनामात्ररूपाश्चेति । बाह्याः पुत्रादिविषयाः । आभ्यन्तरा मनोराज्यादयः । संस्काररूपा वासना मयाः । तत्रानेकजन्माभ्यस्तबाह्याभ्यन्तररागाद्यनुभवजनितसंस्कारैः कलुषी कृतं चित्तं कथञ्चिच्छूवणादिसाधनेनान्तर्मुखमपि चैतन्यग्रहणसामर्थ्याभावा- त्मध्य एव स्तब्धीभवति । यथा राजदर्शनाय स्वगृहान्निर्गत्य राजमन्दिरं प्रविष्टस्य कस्यचित्पुरुषस्य द्वारपाल निरोधेन स्तब्धीभावस्तथा परित्यक्तबाह्य विषयस्याखण्डवस्तुग्रहणाय प्रवृत्तस्योद्ह्रुद्धरागादिसंस्कारैः स्तब्धीभावादखण्ड- वस्त्वग्रहणं कषाय इत्यर्थः । चतुर्थे विन्नमाह अखण्डेति । उक्तसविकल्पक समाध्योर्मध्ये द्वितीयः शब्दाननुविद्धस्त्रिपुटीविशिष्टस्तस्मिन्य आनन्दो बाह्य शब्दादि विषयप्रपञ्चभारत्यागप्रयुक्तो न तु चैतन्यप्रयुक्तः । यथा निधिग्रह- णाय प्रवृत्तस्य निधिपरिपालकभूतप्रेताद्यावृतस्य निधिप्रास्यभावेऽपि भूताद्य- निष्टनिवृत्तिमात्रेण कोऽपि महानानन्दो भवति तथा, सविकल्पकसमाधाव- खण्डवस्त्वनवलम्बनेन नित्यानन्दरसास्वादनाभावेऽप्यनिष्टबाह्यप्रपञ्चनिवृत्तिज- न्यानन्दं सविकल्पकरूपं ब्रह्मानन्दभ्रमेणास्वादयति तद्रसास्वादनमित्यर्थः । लक्षणान्तरमाह समाध्यारम्भेति । निर्विकल्पकसमाध्यारम्भकालेऽनुभूयमान- सविकल्पकानन्दत्यागासहिष्णुतया पुनस्तस्यैवास्वादनं रसास्वाद इत्यर्थः॥३२॥ प्रोक्तंविघ्नचतुष्टयनिवृत्तेः फलमाह अनेनेति । लयादि विघ्नाभावसहितं चित्तं यदा निर्वातदीपवदचलमखण्डचैतन्यमात्रमवतिष्ठते तदा निर्विकल्पक समाधिरित्यर्थः । लयादि विघ्नसद्भावे तन्निवृत्तिप्रकारे च- वृद्धसम्मतिमाह 1. ‘लम्बनेऽपि GHL2. GaudapEdas Karia iii. 4445. १. यो CELFJL. २and margin J; शब्दानु' KE. . So CEF, of .