पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
[खण्डः ३३
वेदान्तसारः

“यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता” इति च॥३३॥


श्चित्तवृत्तिः । अतीतप्रत्ययो यं पदार्थं परिगृह्मात्युदितोऽपि तमेव चेद्गृह्णी यात्त्तदा तावुभौ तुल्यप्रत्ययौ भवतः । तदा एव चित्तस्य परिणाम एकाग्रतेत्युच्यते । एकाग्रताभिवृद्धिलक्षणं समाधिं सूत्रयति ‘‘सर्वार्थैकाग्र तयोः क्षयोदयौ चित्तस्य परिणामः समाधिः” इति । रजोगुणेन चाल्यमानं चितं क्रमेण सर्वार्थान्पदार्थान्परिगृह्णाति तस्य रजोगुणस्य निरोधाय क्रिय- माणेन प्रयत्नविशेषेण दिने दिने योगिनः सर्वार्थता क्षीयत एकाग्रता चोदेति तादृशश्चित्तस्य परिणामः समाधिरित्यर्थः । अस्य समाधेरष्टाद्धेषु यमनियमा सनप्राणायामप्रत्याहारः पञ्च बहिरङ्गानि हिंसादिभ्यो निषिद्धेभ्यो योगिनं कर्मभ्यो यमयन्ति निवर्तयन्तीत्यहिंसादयो यमः । जन्महेतून् काम्यधर्मा न्निवर्त्य मोक्षहेतौ निष्कामधमें नियमयन्ति प्रेरयन्तीति शौचादयो नियमाः। यमनियमयोरनुष्ठानवैलक्षण्यं स्मर्यते । ‘‘यमन्सेवेत सततं न नित्यं निय मान्बुधः । यमान्पतत्यकुर्वाणो नियमान् केवलान् भजन्” इति । बुद्ध्या यमनियमौ समीक्ष्य यमबहुलेषु प्रयत्नेषु बुद्धिमनुसन्दधीत । आसनप्रा- णायामप्रत्याहारा व्याख्याताः । ध्यानधारणासमाधित्रयं मनोविषयत्वात्स म्यक्प्रज्ञातसमाधेरन्तरङ्गं यमादिकं तु बहिरङ्गम् । तथा च केनापि पुण्ये नान्तरङ्गं प्रथमं लब्धे सति बहिरङ्गलाभाय नातिप्रयासः कर्तव्यः । यद्यपि पतञ्जलिना भौतिकभूततन्मात्रेन्द्रियाहङ्कारविषयाः सम्प्रज्ञातसमाधयो बहुधा प्रपञ्चितास्तथापि तेषामन्तर्धानाकाशगमनादिसिद्धिहेतुतया मुक्तिहेतुसमा धिविरोधित्वान्नास्माभिस्तत्रादरः क्रियते । तथा चोक्तं वसिष्ठे—श्रीराम उवाच । जीवन्मुक्तशरीराणां कथमात्मविदां वर । शक्तयो नेह दृश्यन्त आकाशगमनादिकाः । श्रीवसिष्ठ उवाच । अनात्मविदमुक्तोऽपि सिद्धि जालानि वाञ्छति । द्रव्यमत्रक्रियाकालयुक्त्याप्नोत्येव राघव । नामज्ञ- स्यैष विषय आत्मज्ञो ह्यात्मनात्मदृक् । आत्मनात्मनि सन्तुष्टो नाविद्यामनु धावति । ये केचन जगद्भावास्तानविधामयान्विदुः । कथं तेषु किलात्मज्ञ स्त्यक्ताविद्यो निमज्जति । द्रव्यमत्रक्रियाकालयुक्तयः साधुसिद्धिदाः । पर मात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन” इति । आत्मविषयस्तु सम्प्रज्ञात


1. G; vi. 19. १. Yog»8blere iii. 11. There the reading is समाधिपरिणामः २. JK . omit पदार्थान्. ३. निषेधेभ्यः Mss. ४. Man iv. 204 . ५. Cy. Yed °दसम°. ६. Yogyeasis¢had 5. 89.9, 1213, 14, 31, with modifications.