पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ३४ ]
५३
सुबोधिनीसहितः

 अथ जीवन्मुंक्तलक्षणमुच्यते । जीवन्मुक्तो नाम खस्वरूपा खण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि सा क्षात्कृतेऽज्ञानतत्कार्यसञ्चितकर्मसंशयविपर्ययादीनामपि बाधि- तत्वादखिलबन्धरहितो ब्रह्मनिष्ठः ।

‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ ॥

इत्यादिश्रुतेः ॥ ३४ ॥


समाधिर्वासनाक्षयस्य निरोधसमाधेश्च हेतुस्तस्मात्तत्रादरः कृतः । अथ पञच भूमिकारूपश्चित्तस्य निरोधलक्षणः समाधिर्निरूप्यते । तं च समाधिं सूत्र यति—‘युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावैौ निरोधक्षणचित्तान्वयो निरोधपरिणाम” इति । व्युत्थानसंस्काराः समधिविरोधिनस्ते च निषिद्ध- हेतुना योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं चाभिभूयन्ते तद्विरोधिनश्च संस्काराः प्रादुर्भवन्ति । तथा सति निरोध एकैकस्मिन् क्षणे चित्तमनुगच्छति सोऽयमीदृशश्चित्तस्य परिणामो भवति यदा तदारसम्प्रज्ञातसमाधिरुच्यत इत्यर्थः ॥ ३३ ॥

 एतत्समाधिद्वयं जीवन्मुक्तस्यैव सम्भवति नान्यस्येति मनसि निधाय प्रथमं जीवन्मुक्तस्वरूपं प्रतिपादयितुं प्रतिजानीते अथेति । तस्य लक्षणमाह जीवन्मुक्तो नामेत्यादिना ब्रह्मनिष्ठ इत्यन्तेन । अत्राखिलबन्धरहितो ब्रह्मनिष्ठो जीवन्मुक्त इति तस्य लक्षणम् । जीवतः पुरुषस्य हि कर्तृत्वभोक्तृत्वसुखदुःख लक्षणोऽखिलो यश्चित्तधर्मः स क्लेशरूपत्वाद्धन्धो भवति तेन रहितः परित्य क्तबन्धनो ब्रह्मणि निष्ठा तदेकपरता यस्य स ब्रह्मनिष्ठो जीवन्मुक्त इत्यर्थः। सकलबन्धराहित्ये हेतुमाह स्वस्वरूपेति । गुरुश्रुतिस्वानुभवैर्ब्रह्मात्मैकत्वविज्ञा नेन मूलाज्ञानतत्कार्यसञ्चितकर्मादीनामपि वाधितत्वात्सर्वबन्धराहित्यमुपप द्यते । तथा च श्रुतिः भिद्यत इति ॥ ३४ ॥


1. L. and R.ई.matirtha insert सति 2. See Notes. ४. . 2. 2. 8. REmatirtha reads °श्रुतेश्च । १. ‘तन्न° J, तत्राना° L. २. Yoguard ii. 9. The reading %here is as above, with which K. agrees. All the other Mss. and the Calcutta , edition, read निरोधलक्षण° and निरोधः परिणामः ३. योगीन्द्रयत्नेन J.