पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ३६ ]
५५
सुबोधिनीसहितः

 अस्य ज्ञानात्पूर्वं विद्यमानानामेवाहरविहारादीनामनुवृत्ति वच्छुभवासनानामेवानुवृत्तिर्भवति शुभाशुभयोरौदासीन्यं वा। तदुक्तम्

‘बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि ।
शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षण" इति ॥

‘ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्ञो न चेतर" इति ।। ३६ ॥


नन्वस्य जीवन्मुक्तस्य योगीश्वरस्य मम पुण्यपापलेपो नास्तीत्यभिमान- वशाद्यथेष्टाचरणप्रसङ्गमाशङ्क्य परिहरति अस्य ज्ञानादिति । अस्य पूर्वोक्त जीवन्मुक्तस्य ज्ञानात्प्रागेव शान्यादिगुणैरशुभवासनाया निवारितत्वात्संसार दशायामप्रयत्नेनाहारादिप्रवृत्तिवत्तत्त्वज्ञानोत्तरमपि शुभानामेव वासनाना मनुवृत्तिर्भवति नाशुभानामित्यर्थः । ननु शुभवासनानुवृत्तेरपि प्रयोजना- भावात्किं तदनुवृत्त्येत्यत आह शुभाशुभयोरिति । तस्माज्जीवन्मुक्तस्य यथेष्टाचरणप्रसङ्गो नास्तीति भावः । अस्मिन्नर्थे ग्रन्थान्तरं संवादयति तदुक्तमिति । जीवन्मुक्तस्य ब्रह्मज्ञानिर्त्वाभिमानो नास्तीत्यत्रापि सम्मतिमाह ब्रह्मवित्त्वमिति । ननु विदुषां यथेष्टाचरणप्रसङ्गो नास्तीत्युक्तं तदनुपपन्नं ‘‘न मातृवधेन न पितृवधेन ’, ‘‘यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते’, ‘‘हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघातलक्षाणि । परमार्थविन्न पुण्यैर्न च पापैर्लिप्यते मनुजः ११ , ‘‘अश्र्वमेध सहस्राणि ब्रह्महत्याशतानि च । कुर्वन्नपि न लिप्येत यथैकत्वं प्रपश्यति’’ 'सभयाद्भयं प्राप्तस्तदर्थं यतते च यः । स पुनः सभयं गन्तुं स्वतन्त्रश्चेन्न ह्रीच्छति, आरब्धकर्मनानात्वात्बुद्धानामन्यथान्यथा । वर्तनं तेन शास्त्रार्थे

99 १८ 1. Noishkorgo8®ddhi. iv. 62. 2. Upotes'obbbbar. 115 (ii 13). Ramatirtha ignores this line altogether. Apart from its own context, it would be difficult to say what the true reading of the second and third words is. ABCBF K. have यथा, and the rest तथा. A. has मुक्ता, BDG C. मुक्तो, EF'HK. मुक्रवा, J. सुक्तं B. reads ब्रह्मवित्तु. See Notes. मुक्तः - 22 rT १. न CFJ. २. Ko१ १9. 3. 1. ३. G८xviii. 17. ४. Peru b८%dsdv, '8. ५. Si-Scr%h&d (Anandas'rama Series), p. 918. ६. Upcdcs'ashcay. 640. (xviii. 228.). ७. Peo¥ccludeo8'], vi. 287.