तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्टृत्वादयः सद्गुणा श्चालङ्कारवदनुवर्तन्ते । तदुक्तम्--
“उत्पन्न ह्यद्वेष्टृत्वादयो गुणाः। |
किं बहुनायं देहयात्रामात्रार्थमिच्छानिच्छापरेच्छाप्रापि
विभ्रान्तव्यं न पण्डितैः ” इत्यादिश्रुतिस्मृत्यभियुक्तवाक्यैर्विदुषां यथेष्टाचरण त्वाङ्गीकारादिति चेत्सत्यं तेषां वचनानां विद्वत्स्तुतिपरत्वेन तत्कर्तव्यमित्यत्र तात्पर्याभावात् । तदुक्तमाचार्यैः —‘अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः । धर्मकार्ये कथं तत्स्याद्यत्र धर्मो विनश्यति ’ इति ॥ ३६ ॥
नन्वेयं ‘‘अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवं” इत्यादिस्मृत्युक्तसाध नस्य ‘‘अद्वेष्टा सर्वभूतानां” इत्यादिवचनैः प्रतिपाद्यमानाद्देष्टृत्वादिगुणसमू हस्य विदुषां सम्पाद्यमानत्वश्रवणात्तेन सह विरोधमाशङ्कयामानित्वादिसम्पा- दनस्य च विविदिषासन्न्यासविषयत्वाद्विदुषां तु लक्षणत्वेनालङ्कारवदनुवर्तनान्न विरोध इत्याह तदानीमिति । जीवन्मुक्तावस्थायामित्यर्थः । अस्मिन्नर्थे वार्ति कसम्मतिमाह तदुक्तमिति । अस्य विद्वत्सन्न्यासिनो जीवन्मुक्तस्याद्वेष्टृत्वादयो गुणा अप्रयत्नेन स्वत एव भवन्ति न तु साधनरूपिणस्तं प्रति ते साधनरूपा न भवन्ति । तत्र हेतुमाह उत्पन्नेति । यत उत्पन्न आत्मावबोधो ब्रह्मात्मैक त्वनिश्चयरूपस्ततस्तस्य ते गुणा लक्षणत्वेनैव भवन्तीत्यन्वयः ॥ ३७ ॥
इयता प्रबन्धन प्रतिपादितेऽस्मिन्वेदान्तसाराख्ये ग्रन्थे श्रीमत्परमगुरू परमहंसपरिव्राजकाचार्यसदानन्दयोगीन्द्रेण महापुरुषेणाथ वेदान्तो नामे- त्यारभ्य साधनचतुष्टयसम्पन्नस्य प्रमातुरधिकारिणो मूलाज्ञान निवृत्तिपरमा नन्दप्राप्तिसिद्धये प्रतीयमानाविद्यकसकलप्रपञ्चजातस्य ब्रह्मण्यध्यारोपापवाद पुरःसरं सविस्तरं निष्प्रपञ्चत्वं प्रतिपाद्य तत्साधनं च श्रवणादिकं सप्रपञ्चम भिधाय तस्यैवाधिकारिणस्तत्त्वमस्यादिवाक्यश्रवणानन्तरं ब्रह्मात्मैकत्वसाक्षा त्कारेण निरस्त समस्तभेदबुद्धेर्जीवन्मुक्तत्वं प्रदर्शितम् । एतावतैव कार्यसिद्धेः
1. Naikaraycsiddl; iv 69. १. Naibhorrydida iv. 63. The reading there is धर्मोऽपि नेष्यते. २. Gia xii. म. ३. demxii. 13. ४. प्रति CEFUL.; प्रतिबोधेन K. ५. That is, his gurus guru.