पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ३८ ]
५७
सुबोधिनीसहितः

तानि सुखदुःखलक्षणान्यारब्धफलान्यनुभवन्नन्तःकरणाभासा दीनामवभासकः संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे


किं बहुलेखेनेति मनसि निधाय सम्प्रत्यस्यैव जीवन्मुक्तस्य स्वप्रकाशामा नन्दानुभवैकनिष्ठय भेदप्रतीत्यभावेऽप्यविद्यालेशवशात्प्रारब्धं कर्म भुञ्जानो भिक्षाटनादिदेहयात्रामात्रक्रियाविशिष्टो ब्रह्मीभूत एवावतिष्ठत इत्युपसंह रति किं बहुनेत्यादिना । प्रारब्धं त्रिविधम् । स्वेच्छाकृतं भिक्षाटनादि । समाध्यवस्थायां शिष्यादिभिर्दीयमानमन्नादिकं परेच्छाकृतम् । समाध्यव- स्थायां व्युथानदशायां वाकाशफ़लपातवदकस्माज्जायमानं पाषाणपतन कण्टकवेधादिकमनिच्छाकृतम् । स चायं जीवन्मुक्तः प्रोक्तत्रिविधप्रारब्धप्रापितं सुखदुःखमनुभवन्बुद्ध्यादिसाक्षितया सर्वावभासकः सन्भोगेनारब्धकर्मक्षये सति प्रत्यगभिन्नपरमात्मनि प्राणादिलयानन्तरं प्रनष्टाविद्यकसंसारः कृतकृत्यः सन् गलितसकलभेदप्रतिभासो ब्रहैवावतिष्ठत इति सकलवेदरहस्यतात्पर्य मित्यर्थः। अयं जीवन्मुक्तो बुद्ध्याद्युपाधिविलये सति घटाद्युपाधिविनिर्मु क्ताकाशवन्मुक्त इत्युपचारव्यवहारभाग्भवति बद्धत्वस्याप्यवास्तवत्वात् । तदुक्तमर्चायैः —‘न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः । न मुमु क्षुर्न वा मुक्त इत्येषा परमार्थता अस्य जीवन्मुक्तस्योपाधिविगमसमये प्राणाख्यं लिङ्गशरीरमतितप्तलोहक्षिप्तनीरबिन्दुवप्रत्यगभिन्नपरमानन्दे लीन त्वात्स्थूलशरीरं नोत्तिष्ठतीति । अत्र श्रुतिमाह न तस्येति । अयं जीवन्मुक्तो जीवन्नेव दृश्यमानाद्रागद्वेषादिबन्धनाद्विशेषेण मुक्तः सन् वर्तमानदेहपाते सति भाविदेहबन्धाद्विशेषेण मुच्यत इत्यत्रापि श्रुतिमाह विमुक्तश्चेति । बृहदारण्यैकेsपि–‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत ”इति । वासिष्ठेऽपि “जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । भवत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव" इति । ‘असङ्गो ह्ययं पुरुषः , ‘‘आकाशवत्सर्वगतश्च नित्यः , ‘अस्नाविरं शुद्धमपा- ७१ १. क्रियावशिष्टः CFJK. २. Gaudapada ii. 32. See Notes. ३. B¢i%. 4. 4. :. ४. Yogaoiststi> 3. ७. 14 (modified). ५. B¢Q%. 4. 3. 15. ६. In the bhashya on Chhamboggo 6. B. 2, bhis is nsoribed to the Ki%ak¢. It is not in the Kazho pewisdhowever, or in Tod Brah. iii. 10-12, whioh Bha skaramis'so calls Kathakd (See Bornell's Tanjore Catalogue, P. 76.). TI have not had access to a Msof the Shihita. ७. Is', 8.