पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरामतीर्थयति विरचिता विद्वन्मनोरञ्जनी टीका ॐसकलब्रह्मविद्यासम्प्रदायप्रवर्तकाचार्येभ्यो नमः॥ सत्यं ज्ञानमनन्तं परिपूर्णानन्दविग्रहं रामम् । प्रत्यञ्चमनृतविश्वसृष्टिस्थित्यप्ययं वन्दे ॥ १ ॥ वाणीकायमनोभिः श्रीगुरुविद्यागुरून्नमस्कृत्य । वेदान्तसारटीकां कुर्वे श्रद्धवशाद्यथाबुद्धि ॥ २ ॥ चिकीर्षितस्य ग्रन्थस्याविघ्नपरिसमाप्तिप्रचयगमन शिष्टाचारपरिपालनफलं विशिष्ट शिष्टाचारनुमितस्मृतिपरिकल्पितश्रुतिबोधितकर्तव्यताकं स्वभिमतदेच तातवानुसन्धानादमकं मङ्गलमाचरख्यखण्डेत्यादि श्लोकेन। आत्मनमाश्रय इत्य न्वयः । यद्यपि ग्रन्थकरणादिकार्यारम्भे गणेशसरस्वत्यादिदेवताभेदं विघ्न- विघातविद्यास्फूर्तिप्रदत्वेन प्रसिद्धमनुसन्धानं कुर्वन्ति शिष्टास्तथापि एष उ ह्येव सर्वे देवा’ इति श्रुतेरात्मन एव सर्वदेवतात्मकत्वावगमादात्मानुसन्धाने सति सर्वदेवतानुसन्धानं सम्भवतीति मन्यते ग्रन्थकारः। आत्मानं विशुद्ध- चिट्ठपं त्वम्पदलक्ष्यं तुरीयमाश्रये शास्त्राचार्यप्रसादाभिव्यक्तमनुसन्दधे । अस्यामनस्तत्पदलक्ष्यपरमारमानन्यत्वं वाक्यार्थ कथयितुं तदपदार्थ शोध यति-अखण्डसच्चिदानन्दमिति । ‘आनन्दादयः प्रधानस्य’’ इतिन्यायेन सत्यं ज्ञानमनन्तं ब्रह्म ‘विज्ञानमानन्दं ब्रह्म’’ इति श्रुत्योः परस्परैकवा क्यतामभिप्रेत्याखण्डेत्यादिभिरानन्दपदस्य समासः । अखण्डशब्दोऽनन्तपद पर्यायः । स चाविद्याध्यस्तदेशकालवस्तुभ्यः परमात्मनः परिच्छेदं व्यावर्त यत्येव नञ्पदयोगातगात् । तदुक्तम् ‘‘तत्रानन्तोऽन्तवद्वस्तुव्यावृत्यैव विशेषणम् ” इति । इतराणि तु पदानि स्वार्थपरित्यागेनैव स्वविरोध्यर्थव्यावृत्तं ब्रह्म लक्ष यन्ति । तदुक्तम् ‘स्वार्थार्पणप्रणाड्या च परि शिथै विशेषणम्’’ इति । परिशिष्टौ सत्यज्ञानशब्दावित्यर्थः । अखण्डमपि तदनृतं शून्यं वा स्यादि त्यत आह सदिति । सदनृतशून्यभ्यावृत्तं बाधाभावोपलक्षितस्वरूपसत्ता -- १. Brih. 1. 4. 6. २. Brahmusiero 3. ४. 11. ३. T»i%. 2. 1. 1. ४. B¢i%. 3. 9. 28. ५. Suresvara's citivigya४ ४¢lx ii. 78. ६. dem ii. 79 (page 57 ).