पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ वेदान्तसारः [ खण्डः १ ८ त्मकमिति यावत् । ब्रह्मणोऽप्यनृतस्वे निरधिष्ठानारोपप्रसङ्गात् । शून्यस्य ससाक्षिकत्वे तु सर्वशून्यवादानुपपत्तेरसाक्षिकत्वे तदसिद्धेः स्वप्रकाशत्वे च ब्रह्मण एव नामान्तरत्वापत्तेर्न ब्रह्मानृतं शून्यं चेत्यर्थः । अखण्डं सदपि तत्त मोवज्जडं किं न स्यादित्यत आह--चिदिति । चिज्ज्ञानं ज्ञप्तिरिति पर्यायः । श्रुतौ ज्ञानं ब्रह्मेति सामानाधिकरण्यात्गुणत्वे तस्य तदनुपपत्तेः न च । शुक्लो घट इतिवत्तत्स्यादिति वाच्यं निर्धर्म कत्वप्रतिपादकास्थूलादिश्रुतिवि रोधात् । किञ्च ज्ञानस्य नित्यत्वेऽग्न्युष्णवत्सवितृप्रकाशवच्च ब्रह्मस्वभावान तिरेकात् । अनागमापयिधर्मस्य धर्मिणः परमार्थतो भिन्नत्वे प्रमाणाभा वात् अनित्यस्वे ज्ञानानवस्थाप्रसङ्गात् । कार्यस्य सतो ज्ञानस्यपि कार्यान्त रवत्स्वोपादानगोचरापरोक्षज्ञानजन्यत्वात् । ज्ञानोपादानब्रह्मगोचरस्यापि ज्ञान स्य कार्यत्वे तस्यापि पूर्वसमानयोगक्षेमतया कथं नानवस्था । अजन्यत्वे प्रथमे कः प्रद्वेषः । तथा च सिद्ध। ब्रह्मणो ज्ञानस्वभावता । एतेन जीवात्मनो ऽपि ज्ञानस्वभावता व्याख्याता वेदितव्या । स्वप्रकाशं चेतद्दब्रह्मैष्टव्यमप्रकाश जडविलक्षणस्वनिर्देशसामर्थ्यात् । “तदेव “ज्योतिषां ज्योतिः ”, ‘तस्य भासा सर्वमिदं विभाति" इत्यादिश्रुतेः । नन्वेवमखण्डसञ्चिद्रूपमपि ब्रह्म न प्रेक्षा वत्प्रेप्सागोचरं सुखदुःखाभावतत्साधनानामन्यतमत्वाभावात् । न तावत्स्वः सुखदुखाभावसाधनं ब्रह्म स्वस्मिन्सुखदुःखयोर्नित्यनिवृत्तत्वात् ‘‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत” इति श्रुतेः । नाप्यन्यगतसुखादिसाधनं ब्रह्म । अन्येषां दृष्टादृष्टसुखदुःखप्राप्तिपरिहारयोर्लौकिकवैदिकसाधनेभ्य एव सिद्धेः। तस्मान्न सुखादिसाधनं ब्रह्म । नापि दुःखाभावरूपं भावास्मस्वभा वताविरोधात् । नापि सुखात्मकं तथात्वे प्रमाणाभावादित्यत आह--आनन्द मिति । आनन्दं सुखरूपम् । न च ब्रह्मण आनन्दात्मत्वेप्रमाणाभावः ‘विज्ञानमानन्दं ब्रह्म’, ‘आनन्दो ब्रह्मेति व्यजानात् , ‘‘आनंदरूपममृतं यद्विभाति ’, ‘को हेयेवान्याकः प्राण्याद्यदेष आकाश आनन्दो न स्यात् इत्यादिश्रुतेः प्रमाणत्वात् । न चानन्दब्रह्मणोर्धर्मधर्मिताशङ्काप्यवकाशं लभते श्रुतिस्वारस्यभङ्गप्रसङ्गात् । न च ब्रह्मण ईश्वरस्य सुखित्वं परैरपीष्यतेऽत ११ १. Taik. 2. 1. 1. २. Byri%. 3.8. ४. ३. See Notes. ४. Bri. 4. 4. 16. ५. Kapad 5. 15. ६. MNR. omit प्रेक्षावत्. . CMBहै. ७ 8. 12. 1 . ८. P. wrongly reads and translates अनागत!. ९. आन न्दत्वे MP१०. Brih. 3. 9. 28. ११. Tait. 3. 6. 1 . १२. Mf १०¢. 2. 2. भा. १३. Tri८. 2. . 1. १७. त्वदन्यताबिकैरित्यर्थः । सखित्वाङ्गीकारे तत्साधककर्माङ्गीकारोऽप्यस्तु। इष्टापत्तौ तु कर्मसाध्यदुःखापादानं दुर्वारमेवेति भावः ॥ M (margin ).