पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १] विद्वन्मनोरञ्जनी आनन्दो विद्यतेऽस्मिन्नित्यानन्दं ब्रह्मेति परेषां श्रुतिव्याख्यानमुपहासास्पद मेव । न च ब्रह्मण्यानन्दशब्दो दुःखभावपरः ‘‘आनन्दो ब्रह्मेति व्यजानत्’ ’ इति भावरूपब्रह्मसामानाधिकरण्यनिर्देशविरोधात् । न च प्रियास्पर्शित्वश्रु

ति विरोधस्तस्याः श्रुतेर्वैषयिकप्रतिनिषेधपरत्वादिति भावः । यद्यप्यात्मपद मेवेह शेषिपदं तथापि श्रुत्युपरोधात्पदार्थशोधनार्थतया च ब्रह्मपदमध्याहृत्य विशेष्यं बोद्धव्यम् । एवं सत्यखण्डं सच्चिदानन्दं ब्रह्मात्मानमाश्रय इति ब्रह्मात्मपदयोः सामानाधिकरण्येन तत्त्वम्पदार्थयोरैक्यवाक्यार्थोऽब्रह्मसत्वपा रोक्ष्य निवृत्या परिपूर्णतया निरूपितः स्यान्नान्यथा । एतेषां च पदानां ब्रह्म पदेन प्रत्येकं प्रथममन्वितानां पश्चात्सामानाधिकरण्येन परस्परमपि सम्ब न्धसिद्धिः। ‘‘अरूणया पिङ्गाक्ष्या गवैकहायन्या सोमं क्रीणाति” इत्यत्र क्रयवाचिपदान्वितानामरुणादिपदानामिव परस्परान्वयः । न चैकार्थत्वे सत्यादिपदानां पर्यायतापत्तिरयौगपद्यं चेति वाच्यं प्रवृत्तिनिमित्तभेदाश्चावर्त्य भेदाचोक्तदोषानवतारात् । एवमन्योऽपि वाक्यविचारोपयोगी न्याय ऊह नीयो विस्तरभयान्नेह लिख्यते । एवं विधिमुखेन परिच्छिन्नानृतजडदुःखरू पानामतद्धर्मविलक्षणं ब्रह्मेति निरूप्येदानीं ‘‘नेति'नेति’ , ‘‘अस्थूलं ”,“यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इत्यादिश्रुतिमाश्रित्य निषेधमुखेन सकल निषेधावधिभूतं सत्यस्य सत्यं ब्रहृतिदर्शयति--अवाङ्मनसगोचर मिति । वाक्च मनश्च वाङ्मनसे तयोर्गोचरो वाङ्मनसगोचरो न वाङ्मनसगो चरोऽवाङ्मनसगोचरस्तदिति विग्रहः। ‘‘नैवें वाचा न मनसा प्राप्तुं शक्यो न चक्षुष ’, ‘अस्तीत्येवोपलब्धव्य” इति च काठकश्रुतेः। एवं विधिनिषे धाभ्यां ब्रह्मणः स्वरूपलक्षणमभिधाय लक्षितं स्वरूपं तटस्थलक्षणेन सम्भा वयति–अखिलाधारमिति । अखिलस्याकाशादिप्रपञ्चस्याधार आश्रयस्तदिति विग्रहः । आश्रयशब्दः सृष्टिप्रलययोरप्युपलक्षणार्थः । तथाच श्रुतिः ‘यतो.वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसं. विशन्ति तद्विजिज्ञासस्व तद्ब्रहमेति’ इति । ततश्च जगदुत्पत्तिस्थितिलयकारणं ब्रह्मत्युक्तं भवति । अत इदं फलितम् । सत्यज्ञानानन्तानन्दैकरसं ब्रह्म तत्प दलक्ष्यमिति । आत्मपदादेव त्वम्पदार्थशुद्धिः । ‘आत्मेत्येवोपसीतान्न ह्येते सर्व एकं भवन्ति” इतिश्रुतावात्मशब्दस्य निर्विशेषप्रत्यक्चैतन्यमात्रनिष्ठताया निर्धारितत्वात् । तथा च ब्रह्मात्मपदयोः सामानाधिकरण्यादैक्यवाक्यार्थसिद्धि १. Thi८. 3. 6. 1. २. ८. 8. 12. 1. ३. Thi८S८४८6. 1. 6. 7; 7. 1. 6. 2. See Notes. ४. Briहै. 2. 3. 6. ५. dem 3. 8. 8. ६. Thi४. 2. 4. 1. ७. Katha. 6. 12. ८. Ide 6. 13. ९. Th¢k. 3. 1. 1. १०. Byria. 1. 4. 7.