खण्डः ३ विद्वन्मनोरजनी ६७ धिकरण्यात् । तस्माद्ब्रह्मविद्यास्वसंशीलिनां संसारसरतामतिं सादयति विषा दयति शिथिलयतीति वा परमश्रेयोरूपं प्रत्यगात्मानं सादयति गमयतीति वा दुःखजन्मप्रवृत्यादिमूलांज्ञानं सादयत्युन्मूलयतीति वोपनिषदपदवाच्या । सैव प्रमाणम् । तस्याः प्रमारूपायाः करणभूतः सर्वशाखासुत्तरभागेषु पठ्य- मानो ग्रन्थराशिरप्युपचाराप्रमाणमित्युच्यते । तथा चोपनिषदः प्रमाणं प्रमा करणमुपनिषत्प्रमाणं वेदान्त इत्यर्थः । तदुपकारीणि वेदान्तार्थविचारानुकू लानीति यावत् । तदनुकूलत्वं वेदान्तवाक्यप्रमेयासम्भावनापोहद्वारा न तु प्रमियुत्पत्तौ तत्फले वा साक्षाद्विचारशास्त्रस्याङ्गभावस्तथा सति चेदान्तवाक्यानां सापेक्षताप्रसङ्गात् । तदुक्तमभियुक्तैः— “स्वाध्यायवन्न करणं घटते विचारो नाप्यङ्गमस्य परमात्मधियः प्रसूतैौ । सापेक्षतापतति वेदगिरस्तथात्वे ब्रह्मत्रमनः प्रमितिजन्मनि तन्न युक्तम्” इति ॥ शरीरमेव शरीरकं तत्र भवो जीवः शारीरकः स सूत्र्यते याथातथ्येन निरूप्यते यैस्तानि शारीरकसूत्राणि ’अथातो ब्रह्मजिज्ञासा’ इत्यादीनि । यद्वा शारीरकस्य सूत्राणि तद्याथात्म्यवादिवेदान्तार्थसङ्ग्रहवाक्यानि । आदि शब्दो भाष्यादिसङ्ग्रहार्थः । चशब्दो वेदान्तशब्दानुषङ्गार्थः । तथाच वेदा- नामन्तोऽवसानभागो वेदान्त इति व्युत्पत्तियोगान्मुख्यो वेदान्तशब्दो वेद भागभेदेषु शारीरकादौ तूपचरित इति व्युत्पादितः। ननु किं पुनरस्य ग्रन्थ स्यारम्भे निमित्तम् । न खलु निर्निमित्ता प्रेक्षार्वेप्रवृत्तिरिति चेत्को भावः । निमित्तमात्राक्षेप इति चेन्न । अशनायाद्यनेकोर्मिमालाकुलसमुद्धृतक्षोभहत विवेक विज्ञानपाथसि दृढतरकामक्रोधाध्युत्तुङ्गशैलजालविषमे सुतदुहितृकलत्र यान्धवाध्यनेकमकरनक्रचक्राकुले नरमृगपशुपक्षिदेवादिस्थानभोगफेनबुद्बुदे सं सारसागरेऽनवरतमध ऊर्धं तिर्यग्वा मज्जनोन्मज्जनादिविवशानतिवितत गम्भीरार्थानेकशाखवेदान्तविचारमहाद्रुमावलम्बनासमर्थान्दुःखिनो लोकाना लोयय सञ्जातकरुणाया निमित्तत्वोपपत्तेः । अथ निमित्तविशेषाक्षेपश्चेत्त त्राह-अस्येति ‘शास्यैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः” ॥ १. $ + %xpairiword i. 18. २. Brcherostra 1. 1. 1. ३. ६०० प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते in Macings iii. ४. Perh- This
- «ere-wriza xviii. 21, 22 (or, Aristocrole p• +5•
was roprinted from The Pe=t% in 1901).