.६८ वेदान्तसारटीका [ ३, खण्डः ४ इति हि प्रकरणलक्षणं वदन्ति । तथा च यच्छास्त्रैकदेशसम्बद्धं यप्रकरणं तत्तच्छास्त्रीयैरेवानुबन्धैरनुबन्धवद्युक्तम् । अन्यथा शास्त्रप्रकरणयोर्भिन्नविषया- दिमत्वेन शाखासम्बद्धत्वप्रसङ्गादसम्बद्धप्रलपितमिदमापद्येत । अतोऽस्य ग्रन्थस्य वेदान्तशास्त्रीयप्रकरणत्वाद्वेदान्तशास्त्रसिद्धैरेवानुबन्धैस्तद्वत्तासिद्धेर्ने तेऽनुबन्धाः पृथगालोचनीया इत्यर्थः । ननु महाविषयादेरिह शास्त्रीयत्वेऽप्यवान्तरविषयादेः पृथगालोचनमुचि तमितरथा शाखं परित्यज्य प्रेक्षावतऽत्र प्रवृत्ययोगादितिचेद्वाढं प्रकरणवत्येनै वावान्तरसङ्गतेः सुलभालोचनत्वात्पृथगिह निर्देशनपेक्षणात् । तथाहि सारग्रहणेच्छुरवान्तराधिकारी । सगुणनिर्गुणरूपविषयभेदं परित्यज्य निर्गुण सारमात्रमिह विषयः । तन्मात्रावधारणमवान्तरप्रयोजनम् । सम्बन्धोऽपि विषयानुरूप इति भावः । ननु शास्त्रीयोऽनुबन्धः शास्त्रविद्भिरेव विज्ञायते न व्युत्पित्सुभिस्तत्कथमिह तेषां शास्त्रीयविषयाद्यनभिज्ञानां प्रवृत्तिरित्या शङ्क्य शास्त्रीयमेवानुबन्धं संक्षेपतो व्युत्पादयितुमुपक्रमते--तत्रानुबन्धो नाम इत्यादिना । तत्र वेदान्तशास्त्रे । स्वार्थप्रतिपत्तारमनाश्रित्य शास्त्रस्य प्रवृत्त्ययोगादादावधिकार्यानुबन्धापेक्षा । तस्य च विषयबोधमन्तरेणाप्रवृत्ते र्विषयस्य तदानन्तर्यम् । विषयस्य च शक्यप्रतिपाद्यत्वसिद्धये सम्बन्धस्य विष यानन्तर्यम् । प्रयोजनस्य चरमत्वं प्रसिद्धमित्युद्देशपाठक्रमो विवक्षितः । तथा च शारीरकसूत्रं ‘‘अथातो ब्रह्मजिज्ञासा’ इति ॥ ३ ॥ तत्र यथोद्देशक्रममधिकारिणं निरूपयति_अधिकारी त्विति । धर्मजि ज्ञासाधिकारिणोऽस्य वैलक्षण्यसूचनार्थस्तुशब्दः । प्रमाताधिकारीत्यन्वयः । लौकिकवैदिकव्यवहारेष्व भ्रान्तो जीवः प्रमतेह विवक्षितः । जीवमात्रस्य पक्षे भ्रमसम्भवेन शास्त्रार्थप्रतिपत्तृत्वायोगात् । तस्य तुशब्दसूचितं विशेषमाह साधनचतुष्टयसम्पन्न इति । वक्ष्यमाणसाधनचतुष्टयविशिष्ट इत्यर्थः । अयं भावः । न तावद्देदाध्ययनं ब्रह्मजिज्ञासाधिकारहेतुस्तस्य धर्मब्रह्मजिज्ञा सयोः साधारणत्वात्तन्मात्रेणेह नियमेन प्रवृत्यनुपपत्तेः । नापि धर्मविचारः । प्रागपि धर्मविचारादधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । नापि धर्मानुष्ठा- नमिह जिज्ञासाहेतुर्विनापि धर्मानुष्ठानं ब्रह्मचर्यादेव विरक्तस्य ब्रह्मजिज्ञा सादर्शनात् । श्रुतिश्च भवति विविदिषोः सन्न्यासविधायिनी ‘‘यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्’ इत्यादिका । ननु ‘जायैमानो वै ब्राह्मणस्त्रिभििर्ऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वास्ति” इति श्रुतेः । १. Jabad 4. २. Taj-8b%h®d 6, 3. 10, 5.
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८२
एतत् पृष्ठम् परिष्कृतम् अस्ति