पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डे ४] विद्वन्मनोरञ्जनी ६९ ‘ऋर्णानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः” ॥ इति स्मृतेश्चर्णत्रयपाकरणमन्तरेण मोक्षशास्त्रविचारप्रवृत्ययुक्तताया गम्य मानत्वात्कथं धर्ममननुष्ठाय सन्न्यासपूर्वकब्रह्मविचारे प्रवृत्तिरिति चेत् । उच्य- ते। श्रुतिस्तावत् ‘‘हृदयस्याग्रेऽवद्यत्यथ जिह्वया अथ वक्षस’’ इति पश्ववदा नत्रयविधिमुपक्रम्य ‘‘तदवदानैरेवावदयते तदवदानानामवदानत्वं” इत्यवदा- ननिर्वचनेनोपसंहारादवदानत्रयविध्यर्थवादसत्वान्न स्वार्थपरा । अतः सा ‘‘ब्रहा चर्यादेव’” इति श्रुत्यानन्यपरया बाध्यते । यदि ब्रह्मचर्यादिभिरपाकरणीयमृ णत्रयमपि ‘‘अवदनैरेवावदयत” इत्ययदानश्रुतौ ब्रह्मचर्यादेर्ऋणत्रयापाकरण हेतुत्ववचनं स्वार्थपरमेवेति मतं तथापि जातमात्रस्यर्णत्रयसम्बन्धे प्रमाणा- भावादधिकारी जायमानो गृहस्थो वा जायमान इति वा व्याख्यानमुचितम् । स्मृतिस्त्वविरक्तविषयतया व्याख्येया । एतेन ‘यज्ञायुषी यजमानः’,‘‘जरया वास्मान्मुच्येरन् ”, ‘वीरहा वा एष देवानां योऽग्निमुद्वासयत” इत्यादिश्रुतयः एकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्य’’ इत्यादिस्मृतयश्च व्याख्याता वेदितव्याः । ‘ब्रह्मचर्यादेव प्रव्रजेत् ‘, ‘‘यदहरेव विरजेत्तदहरेव प्रव्रजेत् ’, ‘‘अर्थं पुनरव्रती वा व्रती व’ ’, ‘किमर्थां वयमध्येष्यामहे किमर्थां वयं यक्ष्यामहे’, ‘किं प्रजया करिष्यामो येषां नोऽयमात्मेति,‘याज्ञवल्क्यः प्रव व्राज’,‘‘ये प्रजामीषिरे ते श्मशानानि भेजिरे । ये प्रजां नेषिरे तेऽमृतत्वं हिं भेजिर’ इत्यादिश्रुतिस्मृत्यविरोधात् । तस्मान्न धर्मानुष्ठानं ब्रह्मजिज्ञासाहेतुः । अतो ब्रह्मजिज्ञासा जायमाना यस्मिंसत्येव नियमेन जायते यस्मिन्नसति नैव जायते तदेव तस्याः साधनमेषितव्यम् । तच्च वक्ष्यमाणं साधनचतुष्टयमेवेति । कस्मात्पुनः साधनसम्पन्नस्तत्राह--नितान्त' इति । नितान्तमत्यन्तं निर्मलं शुद्धं स्वन्तमन्तःकरणं यस्य स तथा । कुतः स्वान्तस्य नैर्मल्यं प्रतिबन्ध करागादिवासनानिवृत्येत्याह-निर्गत’ इति । रगादिवासनारूपकल्मषनिवृ- त्तिरपि कुतस्तत्राह—नित्य इति । काम्यकर्माभिरतस्यानुष्ठीयमानमपि नित्यादि न साक्षात्कल्मष निवृत्तिहेतुः कामवासनया बुद्धिप्रतिबन्धसम्भवा तया निषिद्धवर्जने पापेन प्रतिबन्धादित्यभिप्रेत्य नित्यानुष्ठानं विशिनष्टि € १. Mcom१८. 6. 35. २. I'dia-Som४%%%% 6. 3. 10. 4. ३. Ide 6 ३. 10. 5. ४. S°a¢topcoad12. 5. 2. 8. For the next quotation, see Notes. ५. ०४-Scf%j४d 1. 5. 2. 1. ६. Gettam-8@f»h%%k 3. 36. ७. Jalp. 4. ८. Ider. ९. Iden, १०. B7%. 4. 4. 22 not in MN. ११. Bri%. 4. 5 . 25. (MEdhyandina). १२. See Notes. १३. साधने.