खण्डः ४] विद्वन्मनोरञ्जनी ७१ मानानि कर्माणि काम्यानि । न च ‘विश्वजिता यजेत" इत्यादावव्याप्तिस्त- त्रापि स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्” इतिन्यायेन स्वर्गफलोद्देशेन विधेः साधितत्वात् । ज्योतिष्टोमशब्द ऐकाहिकविषयः । आदिशब्दोऽहीन सत्रसङ्ग्रहार्थः । भ्रमावगतेष्टसाधनतानिषेधकनञ्पदयोगिवाक्यगम्यानि नि षिद्धानि । लिङ्गाद्यनुषक्तनञ्योगिवाक्ययगम्यानि वा । नरकादीत्यादिपदै हिकदुःखग्रहः । ब्राह्मणहननादीत्यादिपदात्सुरापानादिग्रहः । प्रत्यवायशब्दे- नागामिदुःखमुच्यते । येषामकरणे विज्ञायमाने तत्साध्यते ज्ञाप्यते तानि नित्यनि इत्यर्थः । अकरणे प्रत्यवायलक्षणानि नित्यानीति यावत् । निर्नि. मित्तमुपात्तदुरितक्षयार्थानि नित्यानीति नित्यकर्मलक्षणं न त्वकरणे प्रत्यवा योत्पादकानि नित्यानीति । ननु ‘‘अकुर्वन्विहितं कर्म निन्दितं च समा चरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति’ ” ॥ इति स्मृतौ शतृ प्रत्ययाकरणस्य प्रत्यवायहेतुत्वमवगम्यते तत्कथमकरणस्य प्रत्यवायानुत्पाद कत्वमिति चेन्न ‘लक्षणहेत्वोः क्रियाया” इति पाणिनिना शतुर्लक्षणा र्थेऽपि विधानात् । अत एव नित्याद्यनुष्ठानकाले निद्रालस्यादिपरवशं नर- मालोक्य शिष्टैर्लक्ष्यते यद्यस्य यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यत्तदा सद्भि तदुरितक्षयोऽभविष्यन्न चायं विहितमकार्षीदतः प्रत्यवायी भविष्यतीति । तथा च ‘विचिकित्सञ्छूोत्रिय” इतिवच्छतृप्रत्ययस्यान्यथाप्युपपत्तेर्न तद्व- लादभावस्य हेतुत्वशङ्का युक्ता । तदुक्तम् ‘नित्यानामक्रिया यस्माल्लक्षयित्वैव सत्वरा । प्रत्यवायक्रियां तस्माल्लक्षणार्थे शत भवेत्’ इति ॥ ननु हेत्वर्थेऽपि शतुर्विधानस्य तुल्यत्वे कथं लक्षणार्थावगम इति चेदभावा- द्भावोत्पत्तेरनुपपत्तेरिति वदामः। भावरूपस्य हि कार्यस्य भावरूपं कारणमिति प्रत्यक्षादिभिरवधारितं तेन शतृप्रत्ययादभावस्य भावहेतुताभ्युपगमो विरु ध्यते । नन्वेवं सति कथं तवाप्यकरणस्य प्रत्यवायलक्षकत्वसिद्धिरिति चेनैष १. M¢8©8€ 4. 3. 15. See विश्वजिन्याय in Maoimbs iii. २. ब्रह्म° MNR ; ब्रह्महत्या° P. ३. This sentence comes below, after विधनषत् and reads निर्निमित्तानि &c. ४. Ma4. xi. 44. There the second half of last line reads प्रायश्चित्तीयेत नरः। and the editions and commentaries vary between प्रसक्तः, प्रसजन् and प्रसज्जन्. See Notes. ५. the present participle (active). ६. Pow. 3. 2. 126. ७. T¢i!!driyablisgadwth. i. 21, See Notes,
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८५
एतत् पृष्ठम् परिष्कृतम् अस्ति