७२ वेदान्तसारटीका [ खण्डः ४ दोपः । नास्माभिरकरणस्य स्वरूपेण प्रत्यवायलक्षकस्वमिष्यते किन्तु तज्ज्ञा- नस्य । न च तस्यैव प्रत्यवायजनकत्वमपीति वाच्यं नित्याकरणाज्ञाने प्रत्यक्ष वायाभावप्रसङ्गात् । ननु कथं तर्हि भाटैरनुपलम्भस्याभावप्रमितिहेतुत्वमि ष्यते तार्किकैश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च कारणवमिष्यत इति चेद्भ्रान्त्येति ब्रूमः । तथाहि न तावद्योग्यानुपलब्धेः स्वरूपसत्तामात्रे- प्पाभावप्रमितिहेतुता युक्ता । तथा सत्यज्ञज्ञानकरणसत्वेनाभावज्ञानस्य प्रत्यक्षा न्तर्भावप्रसङ्गाज्जज्ञाताया एवानुपलब्धेरभावप्रमाहेतुत्वे तज्ज्ञानस्यैव भावरूप स्याभावज्ञानकारणता बलादायास्यतीति । प्रतिबन्धकाभावः कारणमिति पक्षे स किं दृष्टकारणकलापकुक्षौ निक्षिप्तः किंवादृष्टकारणकलापकु । आध्ये दाहादिकार्यार्थिनः काष्टादिसमवधानाधिगम इव प्रतिबन्धकाभावसमवधा नाधिगमे सत्येव वह्निप्रज्वलनादैौ प्रवृत्तिः स्यान्न च तथा प्रवर्तमानो दृश्यते । अन्यथा सत्यपि प्रतिबन्धकसमवधाने तदभावनिश्चयेन प्रवर्तमानस्य कदा- चिद्कार्यानुदयो न भवेत् । ननु सति प्रतियोगिनि तदभवनिश्चयो भ्रम इति चेत्तर्हि प्रतिबन्धकस्यायोग्यत्वेन तदभावोऽप्ययोग्य एवेति न तस्य दृष्टकारणक्रलापकुक्षिनिक्षेपः । नापि द्वितीयः । अस्मदाद्यप्रत्यक्षाणामीश्वरत ज्ज्ञानेच्छाप्रयत्नप्राण्यदृष्टानां देशकालयोश्च सूर्यादिग्रहचारक्रियायाश्च भावरूपतया प्रतिबन्धकाभावत्वयोगात्तदतिरिक्तस्य कस्यचित्सर्वं कार्यं साधारणका रणस्य कल्पकाभावत् । किञ्च सत्यपि प्रतिबन्धक उत्तेजकसमवधाने कार्य दर्शनाश्च प्रतिबन्धकाभावस्य कारणता । उत्तेजकाभावविशिष्टप्रतिबन्धका- भावस्य कारणत्वे तादृक्प्रतिबन्धकाज्ञाने तदभावाग्रहान्न तस्य कारणता सिद्धिः । न चानन्यथासिद्धिनियतपूर्ववर्तित्वमपि प्रतिबन्धकाभावस्य तद न्वयव्यतिरेकयोर्विरोधिसंसर्गाभावविषयतयान्यथासिद्धत्वात् । तर्हि विरो- धिसंसर्गाभात्वेनैव कारणतेति चेन्न । मत्येवोपत्तिहेतुकलापसमवधाने स्थितिहेतुसमवधाने वोत्पत्तेः स्थितेर्वा विघटकभावस्य विरोधित्वप्रसिदधेर्न तदभावस्य सामग्र्यन्तर्भावो विरोधिसंसर्गाभावस्य तत्प्रवेशे तत्प्रतियोगिनो विरोधित्वासिद्धिः । तस्मिश्च सति तत्संसर्गाभावस्य सामग्रीप्रवेश इत्यन्यो न्याश्रयस्य दुरुद्ाधरत्वादित्यलमतिकर्दमेन । प्रागभावस्यापि नियतप्राक्कालव र्तित्वेन कारणस्वेऽभ। बबिशेषणस्य कालस्यास्माश्रयताप्रसङ्गो न च प्रागभाव वेनैव कारणत्वं तावन्मात्रे कारणलक्षणाभावात् । किञ्च कारणत्वं नाम धर्मो भावामक उताभवामकः । उभयथापि नाभावनिष्टत्वं तस्य सम्भवति विरोधिनोर्भावाभावयोराधाराधेयभावानुपपत्तेः । अभावस्य निर्विशेषत्वा- न्निरतिशयसत्वाद्वा । तस्मान्नाभावद्भावोत्पत्तौ दृष्टान्तः । तन्तुनाशपटनाश १. सत्यज्ञात° ¢R,
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८६
एतत् पृष्ठम् परिष्कृतम् अस्ति