७४ वेदान्तसारटीका खण्डः ४ मुपात्तदुरितक्षयद्वारा बुद्धिशुद्धिहेतुत्वमिति द्रष्टव्यं निर्गतनिखिलकल्मषतये त्युक्तत्वात् । ‘नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्” । इत्यादिश्रुतेः “धर्मेण पापमपनुदति” इति श्रुतेश्च चित्तशुद्धेः परमप्रयो जनत्वं परम्परया मोक्षसाधनत्वात्। तथाच स्मृतिः ‘स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्त्रकर्मनिरतः सिद्धिं यथा विन्दति तच्छूणु” ॥ इत्युपक्रम्य असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः। नैष्कर्म्यसिद्धिं परमां सन्यासेनाधिगच्छति” ॥ इति । तदुक्तं नैष्कर्म्यसिद्धावपि--"नित्यकर्मानुष्ठानाद्धर्मोत्पत्तिर्धर्मोत्पत्तेः पाप हानिस्ततश्चित्तशुद्धिस्ततः संसारयाथात्म्यावबोधस्ततो वैराग्यं ततो मुमु- क्षुत्वं ततस्तदुपायपर्येषणं ततः सर्वकर्मसन्यासस्ततो योगाभ्यासस्ततश्चि- त्तस्य प्रत्यक्प्रवणता ततस्तत्त्वमस्यादिवाक्यार्थपरिज्ञानं ततोऽविद्योच्छेदस्ततः स्वात्मन्यवस्थानं’ इति । उपासनानां त्विति । तुशब्दः कर्मभ्य उपास नाया वैशिष्टयधोतनार्थः । तस्य नित्याद्यनुष्ठानक्षपितकल्मषतया विशुद्धस्य चित्तस्य शास्त्रप्रकाशिते ध्येये ज्ञेये वा विषय ऐकाग्र्यं निश्चलत्वमित्यर्थः । सूक्ष्मार्थावधारणसमर्थत्वमिति यावत् । पूर्वोक्तप्रकारेणानुष्ठीयमानानां नित्या- दीनामुपात्तदुरितक्षयद्वारा शुध्यादिपरम्परया ज्ञानहेतुत्वे प्रमाणमाह विविदिषन्तीति । आदिपदात् ‘‘तपसँऽनाशकेन” इति वाक्यशेषग्रहः। विविदिषन्तीति विविदिषासम्बन्धे विधिप्रत्ययोऽनुसन्धेयोऽपूर्वत्वात् । नहि यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तो येनानुवादत्वं वाक्यस्य कल्पेत । ननु यज्ञादीनां यावज्जीववाक्येनावश्यकर्तव्यतया प्राप्तानां विविदिषार्थत्वे नित्यानित्यसंयोगः प्रसज्येत यदि च विविदिषार्थं यज्ञानुष्ठानमपरमिष्येत ततः संसारख्यात्सूनां द्विरनुष्ठानं स्यादिति चेन्न खादिरादिवत्संयोगपृथक्त्वो- पपत्तेः । न च तर्हि तेनैव न्यायेन कर्मणां मोक्षार्थसत्वमपीति शङ्कनीयं ज्ञान कर्मसमुच्चयनिराकरणात् । तथाच न्यायः—‘अत एवाग्नीन्धनाद्यनपेक्षा " इति । कर्मणां ज्ञानं प्रत्यारादुपकारकत्वं तु स्यात् “सर्वापेक्षा च यज्ञादि १. Muldw¢w». 22. 1. २. Gita. xviii. 45, 49. ३. (Bombay Sanskri८ Sories ) i. 52. ४. Brj%. 4. 4, 22. ५. Asfor example, “यावज्जीवमग्निहोत्रं जुहोति,” and “यावज्जीवं दर्शपूर्णमासाभ्यां यजेत ." Minodifiedzhiya 2. 4. 1. ६. Brdinashtra 3. 4 25.
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८८
एतत् पृष्ठम् परिष्कृतम् अस्ति