पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ वेदान्तसारस्टीका [ खण्डः ४ संहारपादे “अनियमः सर्वासामविरोधः शब्दानुमानाभ्यां’ इत्यत्राधिकरणे स्मृतिर्नापुनरावृत्तिमूर्ध्वरेतसामाचष्टे किन्तु गमनमात्ररम् । श्रुतौ तु देवलोकश ब्दितब्रह्मलोकगतानां पुनरावृत्यभावोऽवगम्यते । ‘‘ऐतेन प्रतिपद्यमाना इमं मानवमावतं नावर्तन्ते नावर्तन्त” इति, ‘तेषामिहैं न पुनरावृत्तिः” इति च । यपुनरग्नेममिहेति च विशेपणात्कल्पान्तर आवृत्तिरवगम्यते तद्विद्यारहिता नामनावृत्तिस्तु विद्यावतां क्रममुक्त्याम्नानादिति रहस्यम् । नन्वेवं सति छान्दोग्यभाष्यविरोधस्तत्र हि महता संरम्भेण ‘ये चेमेऽरण्ये श्रध्धातप इत्युपासत” इति पञ्चाग्निविधागतवाक्यव्याख्यानावसरे गृहस्थानां विद्या रहितानामनृतपैशुन्यमायादम्भाब्रह्मचर्यादिभिरपूतत्वान्न स्वधर्मनिष्ठामात्रेणो त्तरमार्गगतिरस्ति । इतरेषां नैष्ठिकवानप्रस्थमुख्यसंन्यासिनां तु तद्विपरीतत्वात्पूततया स्वाश्रमधर्मनिष्ठामात्रेणोत्तरमार्गगतिरपुनरावृत्तिलक्षणा भवेदि- त्याचारैरेव निरूपितम् । “न तत्र दक्षिणा’’ इत्यादिश्रुतिः परममुक्त्यपेक्षेति च व्याख्यातम् । तत्कुत एवं विभगवचनमिति चेत्सत्यम् । ऊर्ध्वरेतसामु त्तरमार्गेण ब्रह्मलोकगमनं विद्यां विनापीत्येतावन्मात्रं तत्रोक्तं न पुनरात्य न्तिक्यपुनरावृत्तिस्तत्र विवक्षिता । ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते । इत्यापेक्षिकामृतत्ववचनोदाहरणात् । गुणोपसंहारे च ‘तस्मादिह श्रद्धा- तपोभ्यां विद्यान्तरोपलक्षणं वाजसनेयिनस्तु पञ्चाग्निविधाधिकारेऽधीयते ‘ते य एवमेतद्विदुर्ये चामी अरण्ये श्रध्धासत्यमुपासत’ इत्युदाहृत्य तत्र श्रध्धालवो ये सत्यं ब्रह्मोपासत इति व्याख्येयं सस्यशब्दस्य ब्रह्मरण्यसकृत्प्रयु क्तत्वात्” इति तैरेव व्याख्यातसत्वात् । याज्ञवल्क्यश्चाह ‘सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः। तावन्त एव मुनयः सर्वारम्भविवर्जिताः । तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । तत्र गत्वावतिष्ठन्ते यावदाभूतसम्प्लवम्” ॥ इति । तस्मादात्यन्तिक्यपुनरावृतिर्विद्यावता मेवेति युक्तं क्रममुक्तिहेतुत्वाद्वि- थायाः । न च तर्हि मुक्तेरेव विधायाः परमप्रयोजनत्वाच्चित्तैकाग्र्यस्य १. Brtunas itr« . ४. ३. B1 . Ay to गुणोपसंहार *A६१ Brity on 3. 3. 5, and अधिकरणमाला. २. NPwrongly स्मृतिर्न पुन'. ३. ८hha4. 1. 6. ४. Briha. 6. 1. 18 (Mirdlhynndin4 ). ५. Mi 5. 10. 1. ६. Wish?4 P.M. ४. ७6. ७. Siriranktohdaya on 3. 3. 31. ८. Brih. 6. 2. 15. ९ . Smriti 3. 87, 188.