पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः ४] द्वन्मन। ७ तदयुक्तमिति वाच्यं सगुणब्रह्मविदस्तथात्वेऽपि निर्गुणब्रह्मविद्याधिकारिणः चितैकाग्रताया एव परमप्रयोजनत्वात् । तस्यापि साक्षात्कारोदयात्प्रागेव प्रमीतस्य ब्रह्मलोकगमनोपपत्तेः । ‘प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः ”। इत्यादिस्मृतेश्च । सगुणब्रह्मविदोऽपि ब्रह्मलोकगतस्य तत्रत्यं भोगं विद्या वान्तरफलं भुक्तवतस्तत्रोत्पन्न चित्तैकाग्र्यद्वारा स्वयम्भातवेदान्तवाक्यार्थज्ञा नादेव मुक्तिरिति नियमात् । भवत्येव चित्तैकाग्रतोपासनायाः परमप्रयोजन- मिति न किञ्चिदुष्यति । तस्मात् ‘सर्वे एते पुण्यलोका भवन्ति” इति श्रुतेर्नित्यनैमित्तिकयोः फलवत्त्वस्य वाचनिकत्वात्तथात्वेऽप्युक्तलक्षणभेदेन काम्य वैषम्यात्फलविशेपस्य चाश्रुतापितृलोकस्य च फलात्मनः कर्मविशेषाकाङ्क्षि तत्वान्नष्टाश्वदग्धरथन्यायेन ‘‘कर्मणा पितृलोक' इति श्रुतिरुपपद्यते । काम्य प्रायश्चित्तयोः फलविशेषोद्देशेन पापक्षयमात्रार्थत्वेन च विधानात्फलान्तरा काङ्क्षाभावात्तथाङ्गावबद्धानामुपासनानां कर्मसमृद्ध्यर्थत्वादनङ्गावबद्धानामपि प्रतीकोपासनानामब्रह्मोपासनानां चाभ्युदयफलत्वात्कार्यकारणब्रह्मोपासनाना मवान्तरफलं देवलोकशब्दवाच्यब्रह्मलोक इति परिशेषात्सिद्धेर्युक्तं ‘विद्यया देवलोक इति वचनमित्यलं प्रपञ्चेन ॥ साधनसम्पन्नः प्रमाताधिकारीत्युक्तं तत्र कानि साधनानि कियन्ति वेत्यपे- क्षायां तानि विभजते-साधनानीति । विवेकमन्तरेण वैराग्यायोगाद्वि वेकस्य प्राथम्यं न हीदं हेयमिदमुपादेयमिति विवेचनमन्तरेण हेयाद्गाग निवृत्तिः सम्भवति । अनिवृत्तरागस्य शमाद्यभावाच्छमाद्यपेक्षया विरागस्य पूर्यमुद्देशः। शान्त्यादिहीनस्य मुमुक्षायोगात्ततः प्रागेव शमद्युद्देशः । एतै स्त्रिभिः साधनैः सम्पन्नस्य मुमुक्षाया अवश्यभावात्तस्यां च सत्यां ब्रह्मजि ज्ञासायां नियमेन प्रवृत्तेर्मुमुक्षान्तान्येव साधनानीत्यभिप्रायः । विवेकादीन्युद्देशक्रमेण लक्षयति–नित्यानित्यवस्तुविवेकस्तावदित्या- दिना । नित्यत्वं नाम कालानवच्छिन्नत्वमनित्यसत्वं नाम तद्विपरीतत्वम् । न स्थास्यतीति लोकागमयोर्व्यवहारायोग्यं नित्यं तद्विपरीतमनित्यमिति वा । तथाच नित्यानित्ये च ते वस्तुनी च नित्यनित्यवस्तुनी तयोर्विवेक इति विग्रहः । केचित्तु नित्यानित्ययोर्वसितुं शीलं ययोस्ते नित्यानित्यवस्तुनी नित्यत्वमनित्यत्वं च तयोः साश्रययोर्विवेको नित्यानित्यवस्तुविवेक इत्याहुः। स चापाततोऽधिगतवेदार्थस्यानुमानकुशलस्य ब्रह्मैव नित्यं वस्तु ततोऽन्यद १. G¢d. vi. 4. २. Chack. 2. 23. 2. ३. See Notes. ३. Bri. 1. 5. 16. ५. Iderm. ६. See Notes.