पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

७८ वेदान्तसारीका [ खण्डः ४ 6% १ २ खिलमचेतनमनित्यमिति विवेको भवति । तथाहि । ‘‘यस्मादर्वाक् संवत्स रोऽहोभिः परिवर्तते तदेव ज्योतिषां ज्योतिः ”, ‘नित्यं विमुं सर्वगतं सु- सूक्ष्मं”, ‘‘आकाशवत्सर्वगतश्च नित्यः ”, “अजो नित्यः शाश्वत:”, “‘सत्यं ज्ञानमनन्तं ब्रह्म”, ‘ब्रह रातेर्दातुः परायणं’ ,‘यत्र नान्यत्पश्यति नान्यच्छृ- णोति नान्यद्विजानाति स भूमा’, ‘‘यो वै भूमा तदमृतं” इत्यादिश्रुतिभ्यो ब्रह्मणि नित्यत्वं विशुद्धसत्त्वस्य पुंसः प्रतिभाति । तथा ‘‘नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीत्’ , “आत्मा वा इदमेक एवाग्र आसीन्नान्य त्किञ्चन मिपत्’ ,‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं”, ‘नेति नेति’, ‘ने’ नानास्ति किञ्चन”,’अत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं", अय यदल्पं तन्मर्त्यं इत्यादिश्रुतिवचनेभ्यो ब्रह्मणोडन्यत्र भेदप्रपञ्चेडनित्यत्वं च तस्यैव पुंसः प्रतिभाति । तथानुमानमपि विमतोऽचेतनवर्गाऽनित्योऽ विभक्तत्वाद्धटपटस्तम्भादिवत् इति । अनेन हि विभक्तस्यानित्यत्वेऽवगते तस्मिन्ननुगतप्रकाशात्मकस्य ब्रह्मणोऽविभक्तस्य नित्यत्वमप्यर्थादवगच्छति । आकाशदेश्चोत्पत्तिमत्वसाधनेनानित्यत्वमुत्तरत्र वर्णयिष्यामः न चैवं श्रुत्यनुमानाभ्यां विवेके सति ब्रह्मणो विज्ञातत्वादलं विचारेणेति वाच्यमा पाततो नित्यं वस्तु ब्रह्मेत्यवगमेऽपि तस्याद्वितीयत्वप्रत्यगभिन्नत्वादेरनिर्धार णाज्जिज्ञासया अनिवृत्तेः । इत्यास्तां विस्तरः । १ ऐहिकानामिति । इहलोके भवा ऐहिकाः प्रतिपन्नशरीरसम्बन्धिनः स्रक्चन्दनवनितागृहक्षेत्रपशुभृत्यादि विषयजन्यसुखरूपा भोगाः कृषिसेवाप्र- तिग्रहादिकर्मजन्या अनित्या यथा इष्ट एवमामुष्मिका अप्यमृतादि विषय सेवाजन्यानन्दा यागादिकर्मजन्यत्वादनित्या भवितुमर्हन्तीति निश्चित्य तेभ्यो नितरां छर्दिताश्वव जुगुप्सेहामुत्रार्थफलभोगविराग इत्यर्थः । अयं भावः । सुखं मे निरतिशयं भूयाद्दुखं मे माभूदणुमात्रमपीत्यखिलप्राणिनामस्त्यभि निवेशः । ते चैवमभिनिविष्टाः पुरुषकारावलम्बनेन सर्वोत्साहं यतन्तोऽपि न लभन्ते सुखमात्यन्तिकं दुःखाभावं च । कथम् । केचित्समुद्रयान राजप्रीण- नाथतिकष्टमनुभूय फलकाले स्वयं नश्यन्ति । केचित्प्राप्तफला अपि व्याध्या द्ध्युपद्गुताः सन्तो भोगं न लभन्ते । केचित्तु प्राप्तेषद्भोगा अपि भोग्यभार्या १. rih, 4. A. 16. The Upanised roads तद्देवाः (with which N. Agr®63), not तदेवः २. M/. 1. 1. 6. ३. See footnotes to pag9 537. ४. Kh. 1. 18. ५. Trit. 2. 1. ६. Brih. 3. ७. 28. ७. Chhi. 1 . 2. 1. ८. ८e. ९. Brih. 1. 2. 1. १०. Ai८. 1. 1. ११. CM, 6. 2. 1. २. Brik. 2. 3. 6. १३, Idenum. ४. 4. 19. १४. ८. 7. 2!. ]. १५, des: .