खण्डः ४ ॥ विद्वन्मनोरञ्जनी । ७९ पुत्रादि विनाशाद्वा तद्वि संवादाद्वान्यैर्वा सह स्पर्धासूयादिभिः सञ्चितभोग्य जातस्य क्षयभयेनानावृष्टयादि चिन्तासन्तापादिभिश्च क्षणमपि सुखमलभ मानाः कष्टा दरिद्राः काणकुखीबबधिरादयो बुभुक्षापिपासार्दिता बहुल मुपलभ्यन्ते । एवं दुःखबहुले संसारे सुखलवमात्रमनुभवन्नपि कृपणवद्वि शुद्धश्चित्तो न सज्जते किन्तु विरज्यत एवेति । नन्वस्त्वेवमैहिकं सुखमनि त्यत्वादिदोषदुष्टत्वाद्विरागास्पदं तथापि न पारलौकिकादपि विरक्तिरुपपद्यते क्षयिष्णुत्वानुमानस्य ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” इति श्रुतिबाधितविषयस्यानुत्थानादिति चेन्मैवम् । ‘तेद्यथेह कर्मजितो लोकः क्षीयत एवमेवमुत्र पुण्यजितो लोकः क्षीयत” इति श्रुत्या वस्तुबलावलम्ब- नेन प्रवृत्तयानन्यपरया सापेक्षाक्षय्यफलविषयकायाः प्रंशस्त्यलक्षणाया विध्ये कवाक्यत्वेनान्यपरायास्तस्या एव बाधितत्वात् । न हि जन्यं नित्यं भावरूपं दृष्टमत ऐहिकभोगवदेवाब्रह्मस्तम्बपर्यन्तेषु भोगेषु वैराग्यमुपपद्यत इति । तेंदुक्तं भगवता व्यासेन – यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥” इति । शमदीन्विभजते-शमादय इति । मनसो बहिःप्रवृत्तौ बाह्येन्द्रियाणां द्वारत्वात्तन्निरोधमन्तरेण मनोनिग्रहाशक्तेर्दमानन्तरं शमो द्रष्टव्यः पाठक्रमा दर्थक्रमस्य बलीयस्त्वादग्निहोत्रयवागूपाकवत् । मनसोऽन्तःकरणस्य निग्रहो विषयेभ्यो बलादाकर्षणं शम इत्येतावत्युक्ते श्रवणादि विषयेभ्योऽपि निग्रहे प्राप्ते ततो निग्रहस्य ज्ञानानुकूलत्वाभावादनर्थक्यमित्याशङ्का निग्रहं विशि- नष्टि-श्रवणादीति । मननादिसङ्हार्थमादिपदम्। एवमुत्तरत्रापि द्रष्टव्यम् । तत्व्यतिरितेत्यत्र श्रवणादिस्तच्छब्दार्थः । निवर्तितानां तेषां बाह्यान्तरिन्द्रियाणां तत्व्यतिरिक्तविषयेभ्यः श्रवणादिव्यतिरिक्तविषयेभ्य उपरमणं पुनर्विषयप्रवृत्त्य नुत्साहकरणेन स्थिरीकरणमुपरतिरित्यर्थः । ननु शमदमयोर्लक्षणाभ्यामिद मुपरतिलक्षणं सङ्कीर्णं प्रतिभाति बहिःप्रवृत्तेन्द्रियव्यापारनिरोधात्मकस्य लक्षणा र्थस्य तुल्यत्वादित्यपरितोषात्प्रकारान्तरेणोपरतिं लक्षयति-अथवेति । विहि तानामवश्यकर्तव्यतया चोदितानां सन्ध्यावन्दनाग्निहोत्रादीनां कर्मणां विधिना १. Satpgthc¢ 2. 6. 3. 1. २. CA%l. 8. 1. 6. ३. प्रशस्तलक्ष णायाः P. ४. Malbazhavaza xii. 6636 (Chap. 177 ), and 9919 (Chap. 2). ५. “The Agnihotra being enjoined before the preparation of the gruel (godigy) which is a prerequisite," P. (trans.) See Notes.
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९३
एतत् पृष्ठम् परिष्कृतम् अस्ति