८० वेदान्तसारटीका [ खण्डः ४ <तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति’, ‘प्रजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्” ॥ इत्यादिश्रुतिस्मृत्युक्तमागेण परित्यागः परिव्रजनं सन्न्यास उपरतिरित्यर्थः । शमादिवत्सन्न्यासोऽप्यात्मज्ञानान्तरङ्गस्वदवश्यं मुमुक्षुणानुष्ठेयः । तथाच ११ <न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः” ॥, वेर्दान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्वाः ॥, ‘‘एतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ति ’, ‘‘पुत्रैर्पणायाश्च वित्तैषणा याश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’’, ‘‘तानि वा एतन्यव राणि तपांसि न्यास एवात्यरेचयत्” इत्याद्याः । १ स्मृतयश्च ‘नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥, ‘‘त्वंपदार्थविचाराय सन्न्यासः सर्वकर्मणाम्” ॥, ‘‘अर्थस्य मूलं निकृतिः क्षमा च कामस्य रूपं च वपुर्वयक्ष । धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः ॥, <प्रवृत्तिलक्षणो योगो ज्ञानं सन्न्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य सन्न्यसेदिह बुद्धिमान्” ॥ इत्यादयः । न्यायश्च पुरुषस्योद्देश्यसिद्धये यदुपयुक्तमविरोधि च तदुपादेयं विपरीतं तु हेयमिति । तदिह ब्रह्मात्मजिज्ञासूनां वेदान्तविचारे क्रियमाणे न कर्मणामुपयोगो विनापि कर्म तदनुष्ठानसिद्धेः । नाप्यविरोधः । कर्मविः क्षिप्तचित्तस्य वेदान्तार्थ निर्णयाशक्ते कर्मणां विचारविरोधित्वात् । न ह्यपेत ब्रह्मक्षत्राद्यकर्त्रभोक्तृब्रह्माहमस्मीत्यात्मनि विचार्यमाणे ब्राहम्णाद्यासविशि ष्टात्मप्रतिपत्सत्यधीनेषु कर्मस्वधिकारो न विरुध्यते येनात्मजिज्ञासुना कर्माणि १. Jabalo 4. २. M£2. 6. 38. ३. Mahara४. 10. ३. ४. ]q¢ 3. 2. 6. ५. Bri. 4. 4. 25. Madhyandina). ६. Item. 26. ७. M¢a]w© %, 21. 2. ८. Gya xvii. 49. ९. Uputes'a- ४%or xvii, 222 (विवेकाय ). १०. So keepas'rrank. 3. 366. ११. Malabaratळ xiv. 1195 (chap. 43). See Notes. c%
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९४
एतत् पृष्ठम् परिष्कृतम् अस्ति