खण्डः ४ ॥ विद्वन्मनोरञ्जनी ८३ यथावत्प्रसिद्धौ च न विचारप्रवृत्तिरनुपयोगात् । तथाच केनचिद्रूपेण प्रसिद्धे ब्रह्मात्मवस्तूद्दिश्य विचारेण तद्याथात्म्यं निर्णयम् । तदिह ब्रह्मपदस्य निरतिशयमहत्त्ववति सामान्येन प्रसिद्धत्वादात्मपदस्य च प्रतीचि सामान्येन प्रसिद्धेः ‘‘अयमात्मा ब्रह्म ’ इत्यादौ समभिव्याहारादैक्यस्याप्यापततः प्रसिद्धेस्तद्विशेषस्य च पारोक्ष्यसद्वयत्वाद्यनधिकरणत्वस्य देहेन्द्रियमनोबुद्धिप्रा णाहंकृति विलक्षणतत्साक्षिप्रत्यगभिन्नसच्चिदानन्दाद्वयब्रह्मरूपत्वस्य चाप्रसिद्धेः सामान्यतः प्रसिद्धवस्तूद्देशेन तद्विशेषनिर्धारणाय विचारप्रवृत्त्युपपत्तिरिति । यद्वा । परोक्षतः प्रसिद्धं ब्रह्मात्मवस्तूद्दिश्य तत्स्वरूपसाक्षात्काराय विचारप्र वृत्त्युपपत्तिरिति । तथाच श्रुतिः—‘‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’’ इत्यात्मसाक्षात्कारमनूद्य तादर्थ्येन मनन निदिध्यासनाभ्यां फलोपकार्यङ्गाभ्यां सह श्रवणमनुष्ठेयं विधत्ते । स्मृतिरपि— ‘‘श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मरुवा च सततं ध्येय एते दर्शनहेतवः ” ॥ इति । ननु प्रधानादीनामपि कपिलकणादादिस्मृति सिद्धानां वेदान्तवाक्यविष यत्वात्कथं जीवब्रह्मैक्यस्य विषयत्वसंकीर्तनमिति तत्राह-तत्रैवेति । उपक्रमो पसंहारादिभिर्लिङ्गैर्वैदान्ततात्पर्ये निरूप्यमाणे प्रत्यक्स्वरूपे ब्रह्मण्येव पर्यव सानदर्शनात्प्रधानादिषु चादर्शनाब्रह्मैव वेदान्तविषयो न प्रधानादिरित्यर्थः । तथा च श्रुतिस्मृती भवतः । सर्वे वेदा यत्पदमामनन्ति", ‘वेदैर्ने सर्वै रहमेव वेद्य” इति च । तृतीयमनुबन्धमाह-सम्बन्धस्त्विति । तदैक्यं प्रत्यग्ब्रह्मणोरैक्यं तच्च तत्प्रमेयं चेति तथा तस्येति विग्रहः। ननु कथं यथोक्तप्रमेयस्योपनिषस्प्रमा- णबोध्यत्वं निर्धर्मके तस्मिन्छब्दशक्तिगोचरत्वायोगादिति चेको भावः । शब्दादिहीनस्य वच्यत्वानुपपत्तिरिति चेन्न । अनुक्तोपालम्भात् । असङ्गस्य लक्ष्यत्वानुपपत्तिरिति चेद्यथा लक्षणावृत्याश्रयणेन ब्रह्मात्मैक्यप्रतिबोधस्त थोत्तरत्र वक्ष्यामः । चरममनुबन्धमाह --प्रयोजनं त्विति । तदैक्यप्रमेयशब्दः पूर्ववत् । अज्ञानं वक्ष्यमाणलक्षणम् । तस्य निवृत्तिः प्रयोजनमित्येतावयुक्ते समूल १. Bri%. 2. 5. 19. २. Idem८. 2. 4. 5. ३. Quoted in Brihudd. roya.c®r°z tild 2. 4. 304.Jश्रे श्रोतव्यः श्रुतिवाक्येभ्य इत्यत्राशयते यतः ।” but can trace it no further back. ४. Ka¢l«c 2. 15. ५. Gad xv. 15.
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९७
एतत् पृष्ठम् परिष्कृतम् अस्ति