पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ वेदान्तसारटीका [ खण्डः ४,५ दुःखोन्मूलनलक्षणं वैशेषिकाभिमतं प्रयोजनमभ्युपगतं प्रतिभायात् । तन्माभू दिति विशेषणान्तरोपादानम् । अज्ञाननिवृत्तिरानन्दावाप्तिश्च प्रयोजनमित्युक्ते नित्यनिरतिशयसुखाभिव्यक्तिर्निःशेषदुःखोच्छित्तिश्च प्रयोजनमिति भाट्टाभि मतं प्रयोजनं प्रतिभायात् । तन्माभूदिति तत्स्वरूपेत्युक्तम् । ब्रह्मात्मचैत न्यस्य चानन्दरूपत्वं प्रतिपादितमधस्तात् । विचारजन्यज्ञानस्योक्तोभयविधं प्रयोजनमित्यत्र क्रमेण श्रुती प्रमाणयति-तरतीत्यादिना । आत्मविद्भूमाख्य- ब्रह्मात्मसाक्षात्कारवाञ्छोकोपलक्षितसंसारमूलाज्ञानं तरत्यतिक्रामति । यः कश्चिद्ब्रह्म परमात्मानं प्रत्यग्रूपं वेद साक्षात्करोति स ब्रह्मैव भवति तद्रूप एव भवतीत्यर्थः । नन्वविद्यानिवृत्तैर्विद्यासाध्यत्वेन प्रयोजनत्वेऽपि कथं स्वरूपानन्दस्य तथात्वं तस्य नित्यप्राप्तत्वेन विद्यासाध्यत्वाभावादिति चेत्सत्यं नित्यप्राप्तम प्यानन्दमब्रह्मस्वरूपमविद्यावस्थायां विस्मृतकण्ठगतचामीकरवदनवाप्तमिव भवति । विद्यया त्वविद्यानिवृत्तौ विज्ञातचामीकरवदभिव्यक्तिमापद्यमानमवा- प्तमिव व्यपदिश्यत इति न काचिदनुपपत्तिरिति भावः ॥ ४ ॥ एवं साधनचतुष्टयसम्पन्नस्याधिकारिणो विज्ञातविषयादिमत आत्मयाथा त्म्यजिज्ञासया गुरूपसतिं दर्शयति--अयमधिकारीति । जननमरणादी- त्यादिपदाद्रागद्वेषादिग्रहः । संसारानलसन्तप्तो गुरुमुपसृत्य तमनुसरतीत्य न्वयः । उपसरणं समीपगमनमनुसरणमनुवृत्तिरिति भेदः अत्युद्विग्नस्या विलम्बेन तच्छान्तिकरस्थानप्रवेशे दृष्टान्तमाह-प्रदीप्तेति । निदाघमध्याहा- र्कमरीचिसंव्याप्तखल्वाटः प्रदीप्तशिराः । शिशिरतरमधुरजलपरिपूर्णो महा ह्रदो जलराशिः । ‘रिक्तपाणिर्न सेवेत राजानं देवतां गुरुम् । इति वचनमाश्रित्याह-उपहारपाणिरिति । उपहार उपायनं पाणौ यस्य सः । श्रोत्रियं ब्रह्मनिष्ठमिति गुरोर्विशेषणे । क्षत्रियत्वं वेदवेदाङ्गपारगतत्वं वेदान्तार्थपारगत्वं वा प्रकृतोपयोगात् । श्रोत्रियग्रहणमकामहतत्वावृजिन त्वयोरप्युपलक्षणार्थम् “यश्च श्रोत्रियोऽवृजिनोऽकामहत ” इति श्रुतेः । अकामहतत्वं ब्रह्मलोकानन्दादर्वाचीनेष्वानन्देषु वितृष्णत्वम् । अवृजिनत्वं यथोक्तकारितया निष्पापत्वम् । ब्रह्मनिष्ठत्वमौपनिषदब्रह्मात्मविज्ञानपरिपूर्ण १. M{decimax ii. 1 (2nd. edn.). २. ८uoted (with पश्येत however ) in Indische Spritche, as from Vikrunacharita. 115. Compare, too, रिक्तपाणिर्न पश्येत राजानं ब्राह्मणं स्त्रियम् of Mid- Diwrote vi. 886. ३. Briहै. 4, 3. 33.