पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

७८ व्यक्तिविवेके द्वितीय विमर्शः । इत्यत्रेतिशब्दस्य । यथा च ---

  • चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः ।।

मूर्च्छयत्य॓ष पथिकान् मधौ मलयमारुतः ।। इत्यत्रोत्प्रेक्षायामिवशब्दस्य । यथा च---

  • अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।।

उदयः पतनायेति श्रीमतो बोधयन् नरान् ।। इत्यत्र निदर्शने ममेवेति ।

  • स्वाभाविकं विनीतत्वं तेषां विनयकर्मणाम् ।।

मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् ।। इत्यत्र विनतत्वस्य यद्विशेषण तद् बाधकसद्भावाभावे सति समानाविभाक्तकत्वा- विशेषान् तेजसाप्यनुषज्यत एवेति यत् पुनस्तेजसस्तद्वचन् तत्पौनरुक्त्यमावहति । धर्मस्तुल्यविभक्तीनामेकस्याप्युदितोऽखिलान् ।। तानन्वेतीति पर्यायैस्तदुक्तिः पौनरुक्त्यकृत् ॥ ४४ ।। इति सङ्ग्रहश्लोकः ।।

  • कैरवेन्दीवरच्छायौ नौम्युमाधवमाधवौ ।

ब्रह्मार्चितब्रह्मनुतौ निहतान्धककाळियौ ॥ ” इति । अत्र प्रथमो धवशब्दो द्वितीयश्च ब्रह्मशब्दः पुनरुक्तौ, तावन्तरेणापि समासान्तराश्रयणेन विवक्षितार्थप्रतीतिसिद्धेः प्रत्युदाहरणयोः प्रथमचतुर्थयोरिव पादयोः । अन्यथा तत्रापि छायानिहतपदयोर्द्विरुपादानप्रसङ्गः स्याद् विशेषाभा- वात् । अस्तु को दोषः ? उभयोरपि लक्षणानुगमसम्भवादिति चेत् । सत्यं, किन्तु प्रतीतिरिह प्रधानमिति सैवानुसर्तव्या न लक्षणमात्रं, तस्य तदर्थत्वादियुक्तम् । सा च यावद्भिरुपजायत॓ तावतामेव प्रयोगो युक्तो नातिरिक्तानाम् । न च प्रतीतिमना- दृत्यैव लक्षणमस्तीत्येवातिरिक्तपदप्रयागो युक्तः, तस्यार्थप्रयुक्तत्वाद्, अर्थस्य चाधिक्याभावात् । तदुक्तं 'तदर्थावगत्यर्थो हि शब्दप्रयोगः अर्थश्चेदवगतः किं शब्दप्रयोगेणे'ति । तस्मादुमयोरपि लक्षणानुगमसम्भवे येनैव लघुनोपायेन प्रधान- सिद्धिस्तदेव लक्षणमाश्रयणीय भवति नेतरत् , तत्पुरुषलक्षणाश्रयणेन चोपाय- लाघवामति तदेवाश्रयितुं युक्तं, न द्वन्द्वलक्षणम् । न चैवं तस्य विषयापहारः स्यादित्याशङ्कनीयं 'जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ' इत्यादावतज्जातीये विषये तस्य चरितार्थत्वादित्यलमवान्तरचिन्तया ।