पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्षिाविबेके द्वितीयो विमर्शः | "द्विषद्वधूलोचनचन्द्रकान्तनिप्यन्ढंनन्दूदयसान्निभोऽयम्" ।। इत्यत्रैन्दूदयस्य यश्चन्द्रकान्तविपयो निप्यन्दनव्यापार स प्रसिद्ध इति नोपादेयता- मह॔ति यथा ‘रजनीपुरन्ध्रीलोध्रतिलकश्तिमिरद्विषयूथकेसरी'त्यत्र प्रसाधननिर्मथनव्या- पार उपादीयमानः पौनरुक्त्यमेव पुष्पानि । यस्त्वप्रसिद्धोऽसावुपादीयत एव यथा 'संसारसम्भवनिराकरणैकरेखे' त्यत्र निराकरणम् । रेखा हि हेयोपादेययोरुभयोर्वि- भागहेतुः पदार्थः प्रसिद्ध इत्यनभिमतपक्षप्रतिक्षेपाय तदनुगुणस्य व्यापारस्योपादा- नमुपपन्नमेव । अभिमतपक्षपरिग्रहायापि यथा - “त्वष्टुः सदाभ्यासगृहीतशिल्प- । विज्ञानसम्पत्प्रसरम्य सीमा ।' इत्यत्र प्रसरस्य । किञ्चात्र यदिन्दूदयस्येव सन्निभा यस्येतीन्दूदयतुल्यत्वं राज्ञः शा- ब्दमुक्तं तत् तस्य तत्त्वारोपदार्थमेव युक्तमित्युपात्तपदातिरिक्तस्य सन्निभापदस्य पौनरुक्त्यमावहतीत्युक्तम् ।। अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।। अरुध्येतामितीवास्य नयने बाप्पवारिणी ।। । इति । अत्र हि बाष्पस्य वारिरूपत्वाव्याभिचारेऽपि यद्वारित्वमुक्तं तदसति प्रयोजने पौनरुक्त्यं करोति । न चात्र किञ्चित्प्रयोजनमुत्पश्यामः । तस्माद् बाप्पसम्पदेत्य- यमत्रोचितः पाठः । अस्मिन् हि सति पौनरुक्त्यपरिहारः सम्पदः स्त्रीत्वात् स- खीत्वव्यक्तौ लेशतोऽर्थान्तरावगतिश्चेत्युभयं सिद्धं भवति । साति तु प्रयोजने न दोषः । यथा--, । “पृथ्वीपाल ! प्रतापस्ते वैद्युतेनाग्निना समः । यो वैरिवनिताबाष्पवारिणा वर्धतेऽधिकम् ॥ इति, वैद्युताग्निवृद्धेराधिक्यस्य वारिकार्यत्वेन प्रसिद्धेः । यथा च --- “साहायकार्थमिव फूत्कृतमारुतेन ।

सन्धुक्षितः सपदि यस्य पृषत्कवह्निः ।”

इत्यत्राग्निसन्धुक्षणस्य मारुतकार्यत्वेन प्रसिद्धेः । ‘अवहितचेतसः पथि जनस्य कुतः स्खलितमि'ति । अवहितत्वं नाम चेतस एव धर्मो नान्यस्येति मुख्यवृत्त्या तत्रैवास्य वृत्तिरुपपन्ना । या त्वन्यत्र पुरुषादावस्य दृश्यते सा तत्सम्बन्धादिति तद्विशिष्टेन चेतसा जनस्य यद्विशेषणं तत्र चेतस उपादानं पुनरुक्तं तदुक्त्यैव तद्वगतेः । यथा च ~~ ‘अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम्' इति ।