पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० व्याक्तविवेके द्वितीयो विमर्शः। " वृजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।" इति । केवलादेव तत्सम्बन्धात् तदवगतिर्भवत्येव, यथा "तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।" इति, यथा च 'शरीरकस्यापि कृते मूढाः पापानि कुर्वते । इति, 'मूढोऽनात्ममयःकचिदिति च । यथा च-- "उदितवपुषि दिननाथे प्रविकसितात्मसु कुलेषु कमलानाम् । जगति प्रमुदितमनसि च कोऽन्यो विमनायते चूकात् ॥" इति । अत्र हि वपुरात्ममनश्शब्दानां त्रयाणामपि पौनरुक्त्यम् । तत्र द्वयोः स्वरूप- मात्रवचनत्वात् तस्य च पदार्थेष्वव्यभिचारात् , तृतीयस्यापि प्रमोदस्य मनःकर्तृ- कत्वाव्यभिचाराद् इत्यनन्तरमेवोक्तम् । यथा वा 'किं पुनरीदृशे दुर्जाते जातामर्ष- निर्भरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्ये त्यत्र क्रियाकरणशब्दयोः । यथा च- “पातु वस्तारकाकान्तकलाकलितशेखरः । जगत्रयपरित्राणक्रियाविधिविचक्षणः ।" इति । अत्र क्रियाविधिशब्दयोः पौनरुक्त्यम् । तत्राद्यस्य तावत् परित्राणक्रियावि- शेषप्रतीतेरेव क्रियासामान्यप्रतीतिसिद्धेः विशेषस्य च सामान्याव्यभिचारात् , द्वि- तीयस्यापि क्रियापर्यायत्वेन तत्तुल्यवृत्तान्तत्वात् । यथा च --- "सङ्कल्पकल्पितां कान्तां सर्वत्रोत्पश्यतोऽनिशम् । वियोगदुःखानुभवक्लेशो बत तथापि मे ॥" इति । अत्र हि सङ्कल्पानुभवक्लेशास्त्रयोऽपि पुनरुक्ताः । तत्राद्यस्य तावत् यत् पौ- नरुक्त्यं, तदर्थस्य कल्पनायां करणभावाव्यभिचारात् । द्वितीयस्य दुःखस्यानुभववि- शेषात्मत्वोपगमे सति व्यतिरेकाभावात् तन्निबन्धनषष्ठीसमासस्तेन सह न सम्भ- वतीति । न च विशेषस्य सामान्येन सह समास इष्यते न हि भवति शाबले- यस्य गौरिति । नापि विशेषणसमासः । विशेषप्रतीतेरेव सामान्यप्रतीतिसिद्धेस्तयो- विशेषणविशेष्यभावाभवात् , न हि भवति शावलेयगवीति । तृतीयस्यापि दुःखपर्या- यत्वात् तदुक्त्यैवं गतार्थत्वात् पौनरुक्त्यमविवादसिद्धमेव ।