पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । इत्यत्र वह्नावपि शीतत्वसाहचर्यात् पाण्त्वडुप्रतिपत्तिप्रसङ्गः । किञ्च सत्यामन्यधर्म- प्रतिपत्तिसिद्धौ तद्धेतुः साहचर्यमन्यद्वा परिकल्प्येत । अत्र तु सैव न सिद्धेति व्यर्थस्तत्परिकल्पनप्रयासः । किं हि तत्परिकल्पनं विनात्र परिहीयेत । पयोविन्दूनां मधुपृषवृत्तत्वमिति चेत् कामं परिहि्यताम् । न च प्रयोजनवशात् प्रमाणव्यवस्था भवितुमर्हति । तस्मादनेकधर्मत्वेऽप्यर्थस्य यस्यैव धर्मस्य निर्देशस्तस्यैव प्रतिपत्ति- र्न्यान्य्या नान्यस्येत्यत्र तमसां नागयूथसादृश्ये वाच्ये यत् तेषां मलिनत्वमुक्त स वा- च्यावचनं दोषः । एवं च पृषत्पदप्रयोगोऽत्रातिरिच्यमानोऽनुप्रासवृत्तपरिपूरणायैव पर्यवस्यति न बिन्दूनां वृत्तत्वप्रतिपत्तये इति ‘नागयूथसदृशानी'त्यत्र पाठो युक्त इति । यत्तु ----- करिकलभ ! विमुञ्च लोलतां चर विनयव्रतमानताननः । मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्रमते न तेऽङ्कुशः ।। । इत्यत्राङ्कुशस्य मृगपतिनखकोटिभङ्गुरत्व दुस्सहत्वं चेति धर्मद्वयं वक्तुमभिमतम् । न तदुक्तनयेन भङ्गुरशब्द एवावगमयितुं क्षमते, तस्य कौटिल्यमात्राभिधायित्वे- नैव प्रसिद्धे. । यत् तु तस्य दुस्सहत्वं तन्मृगपतिपदसम्बन्धसामयदेव प्रतीयते न भङ्गुरवसाहचर्याद् इति । एवम् --~-- “प्रभवति च समरमूर्धनि नवनीरदनल एष तव खड्गः । विशति च मानसममलं सतां यशो हंसविसरसितम् ॥ इत्यत्रापि खड्गस्य यशसश्च पूर्वोक्तेन नयेन नवनीरदहंसविसररूपत्वाप्रतीतौ तन्नि- बन्धनाया अर्थान्तरप्रतीतेरनुपपत्तिरिति श्रान्तिमात्रकृतोऽसाविति मन्तव्यः । तेन नवनीरदसुन्दरः कृपाणः' इति ‘हंसविसरसममिति चात्रानुगुणौ पाठौ । धार्मिसाम्यविवक्षायां धर्ममात्राभिधायिनाम् । नेष्टः प्रयोगः शब्दानां समासोपामतौ बुधैः ॥ ९३ ॥ इति सङ्ग्रहश्लोकः । यथा च ----

  • तेनवरोधप्रमदासखेन विगाहमानेन सारिद्वरां ताम् ।

आकाशगङ्गारतिरप्सरोभिवृतो मरुत्वाननुयातलीलः ॥” इत्यत्रानुयातिक्रियापेक्षो राजमरुत्वताः कर्तृकर्मभावोऽभिधातुमभिमतः कवेः । न चा- सौ तत्सम्बन्धस्तयोः साक्षादुक्तः जललीलासम्बन्धमुखेन राजसम्बन्धस्योक्तत्वात् । अतोऽत्र साक्षात् तत्सम्बन्धो वा वाच्यः तदर्थमन्यत् क्रियान्तरं वा, येन कर्तृ- कर्मभावस्तयोर्घटनामियात् । न चोभयोरेकमप्युक्तामति तस्य वाच्यस्यावचनं दोषः ।