व्यक्तिविवेकै द्वितीयो विमर्शः ।
वक्तुं, तस्य तद्धर्मसम्बन्धसंभवात् । तेनात्राम्भोजस्य शाब्दमुपमानत्वं वा दण्डपादत्य वाम्भोजत्वेन रूपण कर्तव्यं, येनास्य प्राधान्ये सति विशेषणसम्ब- न्धोपगमयोग्यता स्यात् । किञ्च भर्तुर्वृत्तयोद्धतस्य ताण्डवात्मनो योऽनुकारस्तस्य दण्डपादविषयभावेनोपादानाज्जङ्घाकाण्डनाळत्वविशिष्टतया संस्थानविशेषवशाच पादस्य दण्डाकारताभिनवत्वं चेत्युभयमप्यवगतमिति न तत्पुनरुपादेयतामहेति । अतो वरमयमत्र पाठः श्रेयान् ---
“स्वच्छलावण्यवापीसम्भूतो भक्तिभाजा भवदवदहनः पादपद्मो भवान्याः"
इति । एवञ्च धारणमात्रविवक्षायां विपूर्वस्य दधातेः प्रयोगः परिहृतो भवति, स हि विपूर्वः करोत्यर्थे वर्त्तते न धारण इति ।
यत्रार्थस्योपमानत्वं समासोक्त्यैव गम्यते । न तत् तत्र पुनर्वाच्यमुक्तौ वा शाब्दमस्तु तत् ॥ १०८ ।। अन्यथा त्वन्यधर्मै: कः सम्बन्धोऽन्यस्य वस्तुनः ।। तेन वाच्यत्वमार्थत्वं चेत्यस्य द्वयमप्यसत् ॥ १०९ ॥
इति सङ्ग्रहश्लोकौ । मै
"पत्ता णिअंबफंस ह्वाणुत्तिण्णाए सामलङ्गीए । चिहुरा रुअन्ति जलविन्दुएहि बन्धस्स व भएण ।।”
इत्यत्र रोदनं बन्धनभयञ्चेति यद् द्वयमुत्प्रोक्षेतं वर्तते तत्र प्राधान्याद्रोदनाभिधायिन एव पदादनन्तरमुत्प्रेक्षावादिनि पदे वाच्ये यत् तस्यान्यतोवचनं सोऽवाच्यवचनं दोषस्तस्य तादार्थ्येन प्राधान्यात् । प्रधाने चोत्प्रेक्षिते तदितरदर्थात्प्रेक्षितमेव भवति । यथ---
"ज्योतीरसाश्मभवनाजिरदुग्धसिन्धुरभ्युन्मिषत्प्रचुरतुङ्गमरीचिवीचिः । वातायनस्थितवधूवदनेन्दुबिम्बसन्दर्शनादनिशमुल्लसतीव यस्याम् ॥”
इत्यत्रेन्दुबम्बसन्दर्शनम् । तेन ‘जलविन्दुएहि रुअइव चिहुरचयो बन्धणभएण’ इत्यत्र युक्तः पाठः ।
एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः । तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यतः ॥ ११० ॥
इति सङ्ग्रहश्लोकः ।।
"तव वदनपदार्थश्चन्द्रशब्दार्थतुल्यो हृदयकुमुदवस्तूज्ज्रुभ्भयत्येष यन्मे ”
१ प्राप्तार्णायाः नितम्बस्पर्श स्नानोतीयाः श्यामलाङ्गयाः । चिकुरा रुदन्ति जलबिन्दुभिर्बन्धस्येव भयेन ।'