पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ व्यक्तिविवेके तृतीयो विमर्शः । भावविरुद्धोपलब्ध्या प्रतिषेधे विज्ञायमाने सति समशीर्षिकयोभयार्थप्रतीतिरेवात्र न समस्तीति तद्विश्रान्तिपर्यनुयोगो निरवकाश' एव । तेनानुमेय एव भ्रमणस्य निषेधो न व्यङ्गय इत्यवयं यथा नात्र शीतस्पर्शोऽग्नेरित्यतः शीतस्पर्शस्य । यदि वा प्रेक्षावतां प्रवृत्तिरनर्थसंशयाभावनिश्चयेन व्याप्ता, तद्विरुद्धश्चात्रानर्थसंश- योऽस्माद्विधिवाक्याण्णिाजर्थपर्यालोचनयावसीयत इति व्यापकविरुद्धोपलब्ध्या यथा नात्र तुषारस्पर्शोऽग्नेरित्यतस्तुषारस्पर्शस्य । अपि चास्मिन्नुदाहरणे दारुणत- रानितरानृक्षप्रभृतीन् प्रसिद्धतब्ध्यापारानपास्य यदेतत् करिकलभकुम्भनिर्मेदैकहेवा- किनः केसरिणः कौलेयकवधाभिधानमौचित्यैकानिकेतनस्य कवेस्तत्र चिरं चिन्त- यन्तोऽप्यभिप्रायं न विद्मः । नहि दृप्ततया यत्किञ्चनकारिणोऽन्यस्यापि रवजाति- समुचितं चरितमपहायाप्रसिद्धमेव किमपि रसभङ्गभीरवः कवयो वर्णयितुमाद्रियन्ते किमुत जगद्विदितव्यापारस्य केसरिणः । अनौचित्यनिबन्धो हि परं रसभङ्गकारणं कवयो वदन्ति । यत् स एवाह ---- “अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा ।।" इति । तस्माद्दरिअरिक्खेणेत्यत्र पाठः श्रेयान् । “अत्ता एत्थ णिमज्जइ एत्थ अहं दिअसअं पलोएहि ।। मा पहिअ ! रत्तिअंधश्च सेज्जाए महँण मज्जहिसि ॥” अत्र हि चलितचारित्रमुद्रा प्रोषितपथिकयुवतिः कञ्चिद्युवानं वासरावसाने वसतिं प्रार्थयमानमुद्दिश्योत्पन्नमन्मथव्यथावेशा श्वश्रूसन्निधौ तस्मै शयनस्थानं विविक्त- मुपदिश्य निशान्धताध्यारोपण स्वशयनसंस्पर्शप्रतिषेधनिभेने श्वश्रूशय्यासन्निवेश- देशं दर्शयन्ती रात्रावत्र मदीय एव शयनये त्वया निभृतमुपस्थातव्यामति तैस्तै- राकारैः प्रतिषेधमुखेन स्वाभिप्रेतमर्थमस्मै निवेदयते । तत्र च केचिदविदितस्वरू- पस्यैव पथिक्स्याकस्मान्निशान्धतोपक्षेपः स्वशयनीयोद्देशदर्शनं चैत्युभयमव्याभि- चारि साधनामिति मन्यन्ते । तद्वशाद्धि तस्य नायिकाशयनोद्देशोपसर्पणमपि कल्प- नीयं स्यात् । श्वश्र्वाश्च तस्याविनयदोषाशङ्कानिरास इत्युभयमाभिमत सिध्यति । यत्त्वत्र श्वश्रूशयनदर्शनं तत् तदाशङ्कानिरासार्थमेव न पथिकप्रवर्तनाङ्गतां ग- च्छति । आत्मन एव शयनोद्देशदर्शने हि तस्याः शङ्का स्यात् । यद्वा शयनयो-

  • ‘एतेना” इति खपुस्तके पाठः.

१ श्वश्रूरत्र शेते अत्राह दिवसक प्रलोकय । मा पथिक। रात्र्यन्ध शय्यायामावयोमड्क्षीः ।। ३. मुखेन” इति खपुस्तके पाठः,