पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके तृतीयो विमर्शः ।। इत्यत्र काचिद् विदग्धा सती कामपि कामुकान्तके परपुरुषपरिक्षताधरपल्लवामा- लोक्य तदसहनस्वभावं च त कामुकमाकलय्य तस्य परपरिभोगशङ्काकळङ्कमपाक- मधरक्षतस्यान्यथासिद्धत्वमुपाल-भानभेन तामाह । तत्र सन्त्रणवल्लभाधरदलदर्शनं सर्वस्यैव कमुकलोकस्येप्यार्यप्रकोपकारणं भवतीति व्याप्तवचनम् । तव च वारितचामायाः सश्रमराम्भोजाघ्राणशीलायान्तन्निबन्धनमिदमधरस्य सव्रणत्वमिति पक्षधमपसंहारः । सह्यतामिदानीं तस्य निजम्याविनयस्य विपाकः प्रियतमप्रकोपरूपस्त्वयेति निगमननिर्देशः । इति वाच्यार्थविषयः साध्यसाधनमावस्तावत स्पष्ट एव । अनुमेयार्थविषये तु तम्मिन् परपुरुषपरिभेगशङ्कानिरास सागः । तस्य सञ्जमराम्भोजाघ्राणशीलत्वेन सम्बोधनसमर्पितेनानुमितमधरपल्लवपरिक्षतेरन्यथासिद्धत्वमार्थो हेतुः । तयोश्चाविनाभावनियमोऽनुरागिणामध्यात्मसिद्ध एवेति सिद्धम् । अत्र वाच्यानुमेययोरुभयोरर्ययोरपि प्रतीतावनुमेय एव विश्रान्तिर्न वाच्ये तस्य तदङ्गतया प्राधान्याभावाद् इत्युक्तमेव ।

  • सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।

शूरश्च कृतविद्यश्च यश्च जानाति सोवितुम् ।। इत्यत्र शूरादीनां त्रयाणां सर्वत्रैव स्वाधीनाः सम्पदो भवन्तीति साध्यम् । तत्र सुवर्णपुष्पपृथिवीचयने कर्तृत्वाभिधान तेषां हेतुः । तद्धि मुख्यमनुपपद्यमानं वाक्यार्योपचारवृत्या तत्सदृशमेव सर्वत्र सुलभविभवत्वमनुमाययति यथा पदार्थोपचारे गडाथां घोष इत्यत्र गङ्गाशब्दो गङ्गासमीपवर्थिनं तटम् । द्विविधो छुपचार इष्टः पदार्थवाक्यार्थविषयत्वाद् उपचारे च वाच्यत्योपायत्वात् । अप्राधान्ये सत्यविवक्षितत्वमेव भवति, उपचारविषयस्यैवोपेयतया प्राधान्यात् । तयोश्च प्रसिद्धिकृत एवाविनाभावानियमोऽवगन्तव्यः । साध्यश्चानुमेय एव न वचनगोचरता गच्छतीस्युत्तम् ।।

  • शिखारीण क्कनु नाम कियञ्चिरं किमभिधानमसावकरोत्तपः ।।

तरुणि! येन तवाधरपाटलं दशति बिम्बफलं शुकशाबकः ॥” इत्यत्र त्वदधरपल्लवपारचुम्बनामृतन्नाल्पपुण्यः पुमानासादयतीति चाटुकरूपोऽर्थः साध्यः । तत्सादृश्यलवावलम्बिनो बिम्बफलस्यापि परिखण्डनविधौ शुकशाबकस्य लोकोतरतपःपरिणामशालित्वसमारोपो हेतु. । यत्र खलु यत्सादृश्यसद्भावमात्रभाजो भावस्य पुण्योपचयपरिश्रैमपरिप्रापणीयत्वमाशङ्कचंत तत्र तस्य तत्सम्बन्धिनो मुख्यस्यैव तत् कथं गावगम्येते । तस्मादत्रापि साध्यसाधनभावगर्मथॆवोपपन्नेति सिद्धम् । | १ ‘णाम' इति खपुस्तके पाठः, २. म्येत ' इति खपुस्तके पाठ.,