पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ व्यक्तिविवेके तृतीयो विमर्शः। धारणधर्मस्वरूपस्य च सादृश्यावगमासम्भवाद् इत्युपमानानुमितिरितीयमुच्यते । एवम् ---- ___ "ते ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम् । बिम्बाहरे पिआणं निवेसि कुसुमबाणेन ॥" इत्यत्रापि वेदितव्यम् । केवलमत्र साधारणो धर्मो लौहित्यलक्षणो रत्न उपमानेऽनु- मेयो, न शब्दोपारूढो, बिम्बरूपतयाधरस्य विवक्षितत्वात् । " स वक्तुमखिलाञ्छतो हयग्रीवाश्रितान् गुणान् । योऽम्बुकुम्भैः परिच्छेदं शक्तो ज्ञातुं महोदधेः ॥" इत्यत्र हयग्रीवगुणान् साकल्येनाभिधातुं न कश्चित् समर्थ इति साध्यम् । तत्र त- दभिधानशक्तत्वस्य कुम्भकरणकाम्भोधिपरिच्छेदज्ञानशक्तत्वस्य चोभयोः प्राकर- णिकेतरयोरेककर्तृनिष्ठयोस्समशीर्षिकयोपात्तयोस्तुल्ययोगितादिवद् गर्भीकृतोपमानो- पमेयभावयोः परिकल्पितेन व्याप्यव्यापकमावेनोपनिबन्धो हेतुः । तयोहि व्याप- कस्य धर्मस्य वृक्षत्वादेरिवाम्बुधेरम्भसः कुम्भैः परिच्छेदज्ञानशक्तत्वस्य प्रमाणान्त- रावसितायामभावप्रतिौ व्याप्यस्यापि शिंशपात्वादरिव हयग्रीवगुणग्रामाभिधानसा- मर्थ्यस्याभावावगतिरिति तस्यामनुमेयत्वमिति । अतिशयोक्तिगर्भश्चायमुपमानोपमे- यभावावसायो हयग्रीवगुणानां साकल्येनावर्णनीयतात्मकासाधारणविशेषप्रतिपादनप- रमाक्षेपमाक्षिपतीत्याक्षेपानुमितिरित्युच्यते । "देवाअत्तम्मि फले किं कीरइ एत्तिअं उण भणामि । ___ कङ्केळ्ळिपल्लवा पल्लवाण अण्णाण ण सारच्छा ॥" इत्यत्रार्थान्तरोपन्याससामर्थ्यादेव वस्तुनोः समर्थ्यसमर्थकभावावसायो न शब्दशक्ति- मूल इति । तदर्थस्य हि शब्दादेरप्रयोगो गतार्थत्वात् । "हिअअठ्ठाविअमण्णु अवरुण्णमुहं पि में पसाअन्त!। ___ अवरद्धस्स वि ण हु दे वहुजाण! रोसिउं सक्कम् ॥" इत्यत्रानाविष्कृतकोपचिबायाः कस्याश्चिदन्तर्गतमन्योर्मानिन्याः केनचित् कृतागसा १. अस्य छाया ३३तमपृष्ठे द्रष्टव्या. २. 'करणस्याम्भोधिपयःप' इति खपुस्तके पाठः. ३. दैवायत्ते फले कि क्रियतामेतावत् पुनर्भणामि । रक्ताशोकपल्लवा पल्लवानामन्येषां न सदृशाः ।। ४. हृदयस्थापितमन्युमपरोषमुखामपि मां प्रसादयन् । अपराद्धस्थापि न खल्ल ते बहुज्ञ रोषितुं शक्यम् ॥