पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ConnurturToul imageantereastumswwwredtymatureuman व्यक्तिविवेके तृतीयो विमर्शः। प्रतिषेधात् । विशिष्टत्वं च 'मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभाग' इत्यत्र चाक- तहरिणीहारिणा नेत्रेण सम्बन्धितया त्रिभागस्य विशषितत्वात् तथाविधस्य चास्य गमकत्वात् । वाक्यस्य चोपचारतोऽर्थान्तरप्रकाशनं यथा ---- “या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा रात्रिः पश्यतो मुनेः ॥" इति । अनेन हि वाक्येन न निशार्थो नापि जागरणार्थः कश्चिदविवक्षितः । किं तर्हि तत्त्वज्ञानावहितत्वमतत्वपराड्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवा- च्यस्यास्य गमकत्वम् । यथा च- "सुवर्णपुष्पां पृथिवी चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥" इत्युक्तम् । तस्यैव प्रकरणादितो यथा --~-- "विसमइओ चिअ काण वि काण वि बोलेइ अमअणिम्माओ । काण वि विसामअमओ काण वि अविसामओ कालो ॥" इत्यत्र वाक्ये प्रकरणादिवशाद्विषामृतशब्दाभ्या सुखदुःखस्वरूपसमितवाच्या- भ्यां व्यवहार इत्यर्थान्तरसंक्रमितवाच्यस्यास्य गमकत्वं । शब्दस्याभिधातिरेकेण शक्त्यन्तरानुपपत्तेस्तन्मूलं पदस्येव वाक्यम्याप्यर्थान्तरप्रकाशनं न सम्भवत्येव यथा हर्षचरिते सिहनादवाक्ये ___ "प्रवृत्तेऽस्मिन् महाप्रलये धरणीधारणायाधुना त्वं शेषः" इति । नह्येतद्वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्यैवानिबन्धन प्रकाशयितुं क्षम- मित्युक्तमेव । "सजेइ सुरहिमासो ण आ पणावेइ जुवइजणलख्खसहे । अहिणवसहआरमुहे णवपल्लवपत्तले अणङ्गस्स सरे ॥" इत्यत्र कविप्रौढोक्तिमात्रनिष्पन्नशरीरे सुरभिमाससम्भवानामाविर्भूताभिनवपल्लवानां तरूणामचिरभावियुवतिजनमदनोन्माददायित्वमनुमेयम् । तत्र च सहकारसुरभिमा- समदनानां रूपकोपनिबन्धने शरशरकारधानुष्कतुल्यवृत्तान्तत्वे सति यदसम्पन्नस- म्पूर्णरूपतया सम्प्रति सहकाराणां शराणामिवानङ्गायाससमपेण स हेतुः । तदसम- र्पणमात्रान्तरायो हि तस्य तद्यापारः । कन्दोद्दीपनसमर्थस्वभावसम्पादनमेव च तेषां सुरभिमासेन कन्दीयार्पणं नान्यदिति । १ विषमय इव केषामपि केषामपि प्रयात्यमृतनिर्माण । केषामपि विषामृतमय केषामप्यविषामृतः काल ॥ २ सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यसहान् । अभिनवसहकारमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ॥