पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

---ar faul 1,८ian Lar - 9 At us a t rakarJhasha

          व्यक्तिविवेके प्रथमो विमार्श्ः ।
    यः कश्चिदर्थः शब्दानां व्युत्पत्तौ स्यान्निबन्धनम् ।
    प्रवृत्तौ तु क्रियैवैका सत्तासादनलक्षणा ।। १० ।।
    तस्यामेव झिबाद्याश्च विधेयाः कतृमात्रतः ।
    न तूपमानादाचारे तयोरर्थात् प्रतीतितः ।। १ १ ।।
    यथा हाश्वति बालेय इत्यतोऽर्थः प्रतीयते ।।
    अश्वत्वमासादयति खर इत्यर्थतः पुनः ॥ १२ ॥
    अश्वतुल्यसमाचारः खर इत्यवसीयते ।।
    न तत्त्वासादन युक्तं तदतुल्यक्रियस्य हि ।। १ ३ ।।
    सत्तायां व्यापृतिश्चैषा चित्रत्वपरििनिष्ठितेः ।
    सङ्गच्छते जडस्यापि घटादेर्घटनादिवत् ।। १४ ॥
    नान्नः सत्त्वप्रधानस्य धातुकारोऽत्त एव हि ।।
    शब्दवचैकदेशादेर्धात्वर्थत्वमवोचत ।। १५ ।।
    एवञ्च विपन्च्य घटो भवतीति क्त्वाऽस्य पूर्वकालत्वम् ।
    घटनापेक्षं ज्ञेय भवनापेक्षन्तु नासमन्वयतः ॥ १६ ॥
    बहिरङ्गत्वाञ्च यथा भवत्यधिश्रत्य पाचकोऽयामति ।।
    अत्र हि पाकापेक्षाधिश्रयंतः पूर्वकालतावगतिं ॥ १७ ॥
    तस्मान्नामपदेम्यो यः कश्चिदर्थः प्रतीयते ।।
    न स सत्तामनासाध शब्दवाच्यत्वमर्हति ॥ १८ ॥
    इत्थञ्चास्तिभवत्यादि क्रियासमान्यमुच्यते ।
    नान्तरङ्गतयावश्यं वक्तारस्तत् प्रयुञ्जते ।। १९ ।।
    क्रियाविशेषो यस्त्वन्यः पाकादिवयमिचारमाक् ।
    बहिरड्गतया तस्य प्रयोगोऽवश्यमिष्यते ॥ २० ॥

इति सङ्ग्रहश्लोकाः ।।

   भावप्रधानमाख्यातम् । असत्यभूतार्था उपसर्गादयः । तेषामसत्त्वभूतार्थ

त्वाविशेषेऽपि व्यापारनियमात् प्रयोगनियमाञ्च न्नैराश्योपगमः । तथा हि क्रिया- रूपातिशयप्रतिपत्तिनिबन्धनमुपसर्गाः प्रादयः । भावसत्त्वयोरात्ममेदप्रत्यायननिमि- चमवधृतरूपार्थविशेषाः स्वरादयो निपाताः । कियविशेषोजनितसम्बघावच्चे- दहेतवः कर्मप्रवचनीयाः । तदुक्तम् ---

    |' इत्यमुतोऽर्थतः इति खपृस्तके पाठः.