एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेके प्रथमो विमर्शः । इति । तस्यैव धर्मस्य समानाधिकरणस्योपादाने सत्यार्थी यथा---
| **द्विषतामुदयः सुमेधसा गुरुरवन्ततरस्तु मृप्यते ।। न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥”
इति । अत्र हि द्विपदुदयगतस्यास्वन्ततरत्वस्य सुमर्षणत्वस्य च तत्परिक्षयगतस्य फलसम्पत्प्रवणत्वस्य दुर्मषणत्वस्य चार्थः साध्यसाधनभावो निबद्धः । धर्मधर्मभावाभावे तु पदार्थमात्रस्य साधनत्वाच्छाब्द् एव । यथा -----
“दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालना- द्विग्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् । ह्रीर्मद्यादनवेक्षणादपि कृषि' स्त्रेहः प्रवासाश्रया- न्मेत्री चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादानम् ॥
इति । एवं वाक्यार्थविषयोऽपि साध्यसाधनभावो द्विविधो बोद्धव्यः । तत्र शाब्दो यथा -----
“सरस्यामेतस्यासुदूरवलिवीचीविलुलितं यथा लावण्याम्भो जघनपुलिनोल्लङ्घनपरम् । यथा लक्ष्यश्चायं चलनयनमीनव्यतिकर-
| स्तथा मन्ये मन्नः प्रकटकुचकुम्भस्स्मरगजः ॥” इति । आर्थों यथा ----
"निवार्यतामालि ! किमप्यसौ वटु, पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते श्रुणोति तस्मादपि यः स पापभाक् ।।
यथा छ -
“दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः ।। अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ||"
इति । अनुमेयार्थविषयो यथा ----
“सुवर्णपुप्पां पृथिवी चिन्वन्ति पुरुषास्त्रयः ।। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥"
अत्र हि सर्वत्र सुलभा विभूतयः शूरादीनामित्ययमर्थोऽनुमीयत इत्येताद्वितानप्यते । अनुमितानुमेयार्थविषयो यथा ----
"पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।। सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।”