व्यत्त्किविवेके प्रथमो विगर्शः । इत्यत्र हि नखरञ्जनानन्तरं परिहासपूर्व सख्या देव्या यदेतदवचनं माल्येनाहननं तत् तदनुभावभूत तस्या कौतुकौत्सुक्यप्रहर्षलज्जादिव्यभिचारिस- म्पदमनुमापयति । सा चानुमीयमाना सती भगवति भवे भर्तरि रतिमनुमापयति । यथा च ----
“एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।। लीलाकमलपत्राणि गण्यामास पार्वती ।। यथा वा ----
‘प्रयच्छतोञ्चैः कुसुमानि मानिनी विपक्षगोत्र दयितेन लम्भिता । न किञ्चिदूचे चरणेन केवलं । लिलेख बाप्पाकुललोचना भुवम् ।।
यथा च वाक्यार्थविषये साध्यसाधनभावे साध्यसाधनप्रतीत्योः सुलक्ष क्रमभावः, तथा वस्तुमात्रादावनुमेयविषयेऽप्यवगन्तव्य. । केवलं रसादिष्वनुमेयेप्वयमसंल- क्ष्यक्रमो गम्यगमकमाव इति सहभावभ्रान्तिमात्रकृतस्तत्रान्येषां व्यङ्ग्यव्यञ्जक- भावाभ्युपगम, तन्निबन्धनश्च ध्वनिव्यपदेशः । स तु तत्रौपचारिक एवं प्रयुक्तो न मुख्य', तस्य वक्ष्यमाणनयेन बाधितत्वात् । उपचारस्य च प्रयोजन सचेतनच- मत्कारकारित्वं नाम । तद्धि मुख्ये चित्रपुस्तकादौ व्यक्तिविषये परिदृष्टमेव । बाच्यो झर्थे न तथा चमत्कारमातनोति यथा स एव विधिनिषेधादि. काक्कभि. धेयतामनुमेयतां वावतीर्ण इति स्वभाव एवायमर्थानाम् । तथा इि ---- ‘' मन्थामि कौरवशतं समरे न कोपाद्
दुःशासनस्य रुधिरं न पिबाम्युरस्तः । राबूर्णयामि गदया न सुयोधनोरू सन्धि करोतु भवतां नृपति. पणेन ।
इत्यतो, ' लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥
इत्यतश्च यथा विधिनिषेधयोश्चारुतावगतिर्न तथा शब्दाभिधेययोरिति । यथा च प्रतिषेधद्वयानुमितस्य प्रकृतस्यैवार्थस्य विधेश्चारुतावगतिर्न तथा स्वशब्दवाच्यस्य । १. ‘पिबाम्युरस्थम्' इति खपुस्तके पाठ.,