पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ व्यक्तिविवेके प्रथमो विमर्श्ः।

           "किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं
              केयं निष्करुण ! प्रवासरुचिता केनासि दूरीकृतः ।
           स्वप्नान्तेप्विति ते वढन् प्रियतमव्यासक्तकण्ठग्रहो
              बुद्ध्वा रोढिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ।।"

इत्यत्र करुणस्य शुद्धस्यैवाङ्गभावः । सङ्कीर्णरसादावङ्गभूते यथा -- ‘क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।। आलिङ्गन्योऽवधूतस्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः | कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥” अत्र हि त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे ईर्प्याविप्रलम्भस्य श्लेषसहितस्यैवाङ्ग- भावः । तदेवं प्रकारत्रयेऽप्यनुमेयार्थसंस्पर्श एव काव्यम्य चारुत्वहेतुरित्यवगन्त- व्यम् । यदाह ध्वनिकारः--‘सर्वथा नास्त्येव हृदयहारिणः काव्यस्य स प्रकारः, यत्र प्रतीयमानार्थसंस्पर्शेन न सौभाग्यम् । तदिद काव्यरहस्यं परममिति सूरिभिर्विभाव- नीयम् । | मुख्या महाकविगिरामलड्कृतिभृतामपि । प्रतीयमाना च्छायैषा भूषा लज्जेब योषिताम् ॥” इति । पुनः स एव यथा ---- “प्रकारोऽन्यो गुणीभूतव्यङ्गयः काव्यस्य दृश्यते । यत्र व्यङ्गयान्वये वाच्यचारुत्वं स्यात् प्रकर्षवत् ॥” सम्भवापेक्षया चास्य ध्वनेः स्वरूपमात्रप्रतिपादनार्थत्वोपगमेऽन्येषामपि तद्वाक्य- वर्तिना पदवर्णसंख्यादीनां तदुपदर्शनप्रसङ्गो विशेषाभावादिति संज्ञासंज्ञिसम्बन्ध- व्युत्पत्तिमात्रफलमेतत् पर्यवस्यतीति न काव्यविशेषव्युत्पत्तैिफलम् । न चायं प्रधानेतरभावेनोपनिबद्धस्तेषामनुमेयतां प्रतिबध्नाति । तदेवञ्च नार्थशब्दयोरुप- सर्जनीकृतस्वार्थत्वमव्यभिचारासम्भवदोषदुष्टत्वात् । न वाच्यप्रतीयमानयोर्व्यङ्गय- व्यञ्चकभावस्तल्लक्षणाभावात् । न च काव्यविशेषस्य लक्षणकरणं प्रयोजनाभावात् ।। नापि ध्वनिव्यपदेशः व्यङ्ग्यव्यञ्जकभावाभावादुपपद्यत इति सर्वमसमञ्जसमिव तल्लक्षणमुपलक्ष्यते ।। यदि काव्ये गुणीभूतव्यङ्गचेऽपीष्टैव चारुता ।। प्रकर्षशालिनी तर्हि व्यर्थ एवादरो ध्वनौ ।। ९३ ।।