पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्याक्तिविवेके द्वितीयो विमर्शः । रोऽभिमतार्थसङ्गमोपायः सम्भवति । स चैवंविधेषु सूक्तिरलेषु कलङ्कायमानो भनागपि न काव्यमाणिक्यवैकटिकानां सचेतसां सनाम्यावर्जयितुमलामिति । अनुक्तैव परामृश्य प्रयोगो यत्र यत्तदोः ।। निरन्तरः पुनस्तत्र तयोरुक्तिर्न दुष्यति ।। ८ ।। तयोर्निरन्तरोपात्तेष्विदमेतददस्सु च । तयोस्तेषां च नापेक्षा तेप्सन्स्विव शान्यनि ।। ९ ।। उदाहरणजात यत् तत्साङ्कर्यसमुद्भवम् ।। तस्य दिङ्मात्रमम्माभिरुक्तं विन्तरभीमभि }} १० ॥ इति सङ्ग्रहश्लोकाः । अपि च अम्बिकाकेसरीत्यत्र षष्ठीसमासो नोपपद्यते यतः सर्वेषामेव समासानां तावत् प्रायेण विशेषण्णाशेष्याभिधायिपदोपचतशरारत्वं नाम सामान्यं लक्षणमाचचंक्षीरे विचक्षणाः । इतगथा तेषां समर्थतानुपपत्तेः । स च विशेषणविशेष्यभावो द्विधैव सम्भवति । समानाधिकरणो व्यधिकरणश्चेति । तत्राद्यः कर्मधारयस्य विषयः । यत्र तु द्वे वहूनि वा पदान्यन्यस्य पदम्याथै विशे- पणभाव भजन्ते सा बहुव्रीहे. सरणिः । तत्रैव यदा सङ्ख्याया प्रतिषेधस्य च विशेषणभावो भवेत् तदा स द्विगोर्नसमासस्य च विषय । द्वितीयः प्रकारः कार- काणां सम्बन्धस्य च विशेषणत्वाद् बहुविधः । स तत्पुरुषन्य पन्थाः । तत्रापि यदाव्ययार्थस्य विशेष्यता स्यात् तदासादययीभावम्य मार्गः । तदेवमेषां समासानां विशेषणविशेष्योभयाशसस्पर्शित्वेऽपि यदा विशेषणांशः स्वाश्रयात्कर्षधानमुखेन वाक्यार्थचमत्कारकारणतया प्राधान्येन विवक्षितो विधेयधुरामधिरोहेद् इतररत्व- नूद्यमानकल्पतया न्यग्भावमेव भजेत् तदासौ न वृत्तेर्दिषयो भवितुमर्हति । तस्यां हि स प्रधानेतरभावस्तयारस्तमियादित्युक्तम् । तच्चैताद्विशेषामेकमनेकं वाग्तु न तयोर्विशेषः कश्चित् । ननु च विशेषणत्वमवच्छेदकत्वाद् गुणभावः विधेयत्वं च विवक्षितत्वात् प्राधान्यं तत्कथमनयोर्भावाभावयोरिवान्योन्यं विरोधादेकत्र समावेश उपपद्यते येनैकत्र नियमेन समासो निषिध्येत अन्यत्र चोपकल्प्येत । नैष दोषः । विरोधस्योभयवस्तुनिष्ठत्वात् शीतोष्णादिवत् । न चेह वस्तुत्वमुभयोः सम्भवति एकस्यैव वास्तवत्वाद् । अन्यस्य च वैबक्षिकत्वेन विपर्ययात् । न च वस्त्ववस्तुनोर्विरोधः । न हि सत्यस्तिनः कल्यनाकेसरिणश्च कश्चिदन्योन्यं विरो- धमवगच्छति । फलभेदस्त्वनयोर्निर्विवाद एव । एकस्य हि सकलजगद्गम्यः शाब्दि- कैकविषयः पदार्थसम्बन्धमात्रम् । अपरस्य पुनः कतिपयसहृदयसंवेदनीयः सन्