व्यक्तिविवेके द्वितीयो विमर्शः । चास्य विध्यनुवादभावस्य निमज्जनादित्युक्तमेव । ननु च यदि विशेषणस्य विवाक्ष- तत्व सति विशेप्यस्य कोऽपि चमत्कारः समुन्मिषति स च तस्य समासेऽस्तमुप- यातीत्युच्यते तर्हि समासादसौ न प्राप्नोति इप्यते च कौश्चित् ततोऽपीति वृत्तिवा- क्ययोस्तस्य यदेतदुदयाम्तमयपरिकल्पनं तदयुक्तमेव । उच्यते । उदयास्तमययो- र्यत् तावदर्थस्य वैचित्र्यं तदुपदर्शितमेव प्राक् । यत् पुन समासे चमत्काराभाव- प्राप्तिप्रसञ्जन न तच्चोद्यम् । इष्ट हि नामाप्राप्त्या चोद्यते । न चाम्माभिरसौ समा- सादपीष्यते वाक्यादेव तत्सिद्धेरिष्टत्वात् । यैस्तु ततोऽपीप्यते तेषां वृत्तिवाक्ययो- र्नूनमिदमर्थवैचित्र्य न प्रतिभातमेव । या पुनरेपा वृत्तेग्पि चमत्कारातिशयावगतिः यथा---
"मिथ्यैतन्मम चिन्तित द्वितयमप्यार्यानुजोऽसौ गुरु- र्माता तातकळत्रमित्यनुचित मन्ये विधात्रा कृतम्"
इत्यार्यानुज इत्यतम्तातकळत्रम् इत्यतश्च सा भ्रान्तिरेवाभिमानिकी शुक्तिरजतप्रती- तिवत् । परमार्थतस्तु सा व्याख्यावाक्यादेव तेपा, न समासात् , केवल तत्रारोपि- तेत्युदयाम्तमयपरिकल्पनमुपपन्नमेवेति सिद्धम् । त"मादेवमत्र पाठः कर्तव्यः ।।
“उद्योगः करिकीटमेघशकलोद्देशेन सिहम्य यः सर्वस्यैव स जातिमात्रनियतो हेवाकलेशः किल । इत्याशाद्विरदक्षयाम्बुदघटाबन्धेऽपि नोद्युक्तवान् योऽसौ कुत्र चमत्कृतेरतिशय गौर्या हरिर्यातु सः ।।"
इति । इत्थञ्चोक्तदोषत्रयावकाश प्रतिविहितो भवति । यद्यपि च योऽसावित्यत्र प्रतिपादिताभिसम्बन्धऋममेकमेव तदमुपादाय सोऽयमिति पाठे विपर्यासिते सत्येक- वाक्यतायां न यथोक्तयत्तदभिसम्वन्धदोषावकाश यथा ---
"तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् । वसुन्धरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ।"
इत्यत्र, तथापि तत्रार्थस्य चमत्कारातिशयो न्यग्भवत्येव । स हि भिन्नवाक्यतायामेव सहृदयैकसंवेद्यः समुन्मिषतीति तदनुगुणार्योऽयमेव पाठः श्रेयानिति ।
यत्रोत्कर्षोऽपकर्षों वा विशेप्यस्य विशेषणात् ।। ग्तदेव वा विधेयं स्यात् समासम्तत्र नेप्यते ॥ २६ ॥ अन्यत्र त्वर्थसम्बन्धमात्रे वक्तुमभीप्सिते ।। कामचारस्तदर्थ हि समर्थग्रहण मतम् ।। २७ ।।