पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । "बभूव भम्मैव सिताङ्गरागः कपालमेवामलशखरश्रीः । उपान्तभागेषु च रोचनाङ्क. सिहाजिनस्यैव दुकूलभाव ।।" अत्रापि ‘मृगेन्द्रचर्मैव दुकूलभम्ये ति युक्त पाठः । अम्भिश्च पाठे रोचनाङ्कत्वम्य द्रव्यधर्मत्वाद् दुकूलभावविशेषणत्वानुपपत्तपरिहाराद् गुणान्तरलाभ । उपसर्गप्र- क्रममेदो यथा ‌---- “विपदोऽभिभवन्त्यविक्रम रहयत्यापदुपेतमायतिः । नियता लघुता निरायतेरगरीयन्न पद नृपश्रियः ॥" इति । तेन ‘तदुपेतं विजहाति चायति' रिति युक्त पाठः । वचनप्रक्रमभेदो यथा ---- “काचित् कीर्णा रजेभिर्दिवमनुविदधे मन्दवक्रेन्दुलक्ष्मी- रश्रीका. काश्चिदन्तर्दिश इव दधिरे दाहमुद्भान्तसत्त्वा । भ्रेमुर्वात्या इवान्या. प्रतिपदमपरा भूमिवत् कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरोभावि नार्यः शशसुः ।। अत्र हि कश्चित् कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवकेन्दुशोभा' इति युक्त पाठः । यथा च 'अभिवाञ्छितं प्रसिध्यतु भगवति युप्मत्प्रसादेन' इति । अत्र छेकवचनेन भगवतीमेकां सम्बोध्य प्रसादसम्बन्धितया यस्तम्या बहुत्वनिर्देश स वचनप्रक्रमभेदो दोष. । तेनात्र भवतीप्रसादेनेति युक्त. पाठः । तिङन्तप्रक्रमभेदो यथा अत्रैव 'अपरा भूमिवत् कम्पमाना' इति । अत्र हि कम्पमापुरिल्युचितः पाठः । एकन्या. क्रियायाः प्राधान्याभावादियुक्तम् । कालाविशेषग्रक्रमभेदो यथा -- "सनुः पयः पपुरनेनिजुरम्बराणि जक्षुअर्बिसान्वूतविकासिबिसप्रसूवा:। सैन्याः श्रियामनुपभोगनिरर्थकत्व- दोषप्रवादममृजन्नगनिम्नगानाम् ॥" अत्र हि स्नानादौ यः कालविशेषः प्रक्रान्तः स नेजनादौ भेदम् नीत इति प्रक्रमभेदो दोषः । तेन ‘सत्रुः पयांसि पपुरम्बरमानिनेजुर्जक्षुर्बिसान्धृतावकासिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषं वनेषु सरिता प्रसभं ममार्जुः' इति युक्तः पाठः । यदि वा दोषोऽयमनुद्भवनीय एव । कालावशेषम्य विवक्षामात्रभावितयान- वस्थितत्वात् । यदाहुः -- ‘परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्षानवियान दर्शन- योग्यत्वात् परोक्षस्थाविवक्षायां लङ् भवत्येव । अजयज्जयन्तो भूतानि' इति ।