पृष्ठम्:शङ्करदिग्विजयः.djvu/१०

पुटमेतत् सुपुष्टितम्
4
[प्रथमः
श्रीमच्छङ्करदिग्विजये

महताऽनेहसा यैषा सम्पदायागता गता ।
तस्याः शुद्धात्मविद्यायाः षष्ठे सर्गे प्रतिष्ठितिः॥ २०

तयासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् ।
स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ॥ २१

वाणीसाक्षिकसार्वज्ञनिर्वाहोपायचिन्तनम् ।
दशमे योगशक्त्या भूपतिकायप्रवेशनम् ॥ २२

बुद्ध्वा मीनध्वजकलास्तत्प्रसङ्गप्रपञ्चनम् ।
सर्ग एकादशे तूग्रभैरवाभिधनिर्जयः॥ २३

द्वादशे हस्तधात्र्यार्यतोटकोभयसंश्रयः ।
वार्तिकान्तब्रह्मविद्याचालनं तु त्रयोदशे ॥ २४

चतुर्दशे पद्मपादतीर्थयात्रानिरूपणम् ।
सर्गे पञ्चदशे तुक्तं तदाशाजयकौतुकम् ॥ २५

षोडशे शारदापीठवासस्तस्य महात्मनः ।
इति षोडशभिः सर्गैर्व्युत्पाद्या शाङ्करी कथा ॥ २६

सैषा कलिमलच्छेत्री सकृच्छ्रुत्याऽपि कामदा ।
नानाप्रश्नोत्तरै रम्या विदामारभ्यते मुदे ॥ २७

एकदा देवता रूप्याचलस्थमुपतस्थिरे ।
देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥ २८

प्रसादानुमितस्वार्थसिद्धयः प्रणिपत्य तम् ।
मुकुलीकृतहस्ताब्जाः विनयेन व्यजिज्ञपन् ॥ २९

विज्ञातमेव भगवन्विद्यते यद्धिताय नः ।
वञ्चयन्सुगतान् बुद्धवपुर्धारी जनार्दनः ॥ ३०

तत्प्रणीतागमालम्बैर्बौद्धैर्दर्शनदूषकैः ।
व्याप्तेदानीं प्रभो धात्री रात्रिः संतमसैरिव ॥