पृष्ठम्:शङ्करदिग्विजयः.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
94
[नवमः
श्रीमच्छङ्करदिग्विजये

वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया ।
तदपेक्षयैव स च मोक्षपरो निरधारयन्न परथेवि वयम् ॥

श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।
इति सूत्रयन्ननु कथं मुनिराडपि सिद्धवस्तुपरतां मनुते ॥

श्रुतिराशिरद्वयपरोऽपि परंपरयाऽऽत्मबोधफलकर्मणि च ।
प्रसरत्कटाक्ष इति कार्यपरत्वमसूचि तत्प्रकरणस्थगिराम् ॥

ननु सच्चिदात्मपरताऽभिमता यदि कृत्स्नवेदनिचयस्य मुनेः।
फलदातृतामपुरुषस्य वदन् स कथं निराह परमेशमपि ॥ १०

ननु कर्तृपूर्वकमिदं जगदित्यनुमानमागमवचांसि विना ।
परमेश्वरं प्रथयति श्रुतयस्त्वनुवादमात्रमिति काणभुजाः ॥ ११

न कथंचिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः ।
कथयत्यवेदविदगोचरतां गमयेत् कथं तमनुमानमिदम् ॥ १२

इति भावमात्मनि निधाय मुनिः स निराकरोन्निशितयुक्तिशतैः ।
अनुमानमीश्वरपरं जगतः प्रभवं लयं फलमपीश्वरतः ॥ १३

तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेर्वचसि ।
इति गूढभावमनवेक्ष्य बुधास्तमनीशवाद्ययमिति ब्रुवते ॥

किमु तावतैव स निरीश्वरवाद्यभवत् परात्मविदुषां प्रवरः ।
न निशाटनाहिततमः क्वचिप्यदहनि प्रभां मलिनयेत्तरणेः॥ १५

इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।
मनसा ननन्द कविराण्णितरां सह शारदाश्च सदसस्पतयः ॥ १६

विदिताशयोऽपि परिवर्तिमनाग्विशयः स जैमिनिमवाप हृदा ।
अवगन्तुमस्य वचसाऽपि पुनः स च संस्मृतः सविधमाप कवेः ॥ १७

अवदच्च शृण्वति स भाष्यकृति प्रजहाहि संशयमिमं सुमते ।
यदवोचदेष मम सूत्रततेर्हृदयं तदेव मम नापरथा ॥ १८
१४