पृष्ठम्:शङ्करदिग्विजयः.djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
102
[नवमः
श्रीमच्छङ्करदिग्विजये

कृतधीस्त्वनाश्रममवर्णमजात्यवबोधमात्रमजमेकरसम् ।
स्वतयाऽवगत्य न भजेन्निवसन्निगमस्य मूर्ध्नि विधिकिङ्करताम् ॥ ९३

कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् ।
परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्ति खलु ॥ ९४

कथमज्यते जगदशेषमिदं कलयन्मृति हृदि कर्मफलैः ।
न फलाय हि स्वपनकालकृतं सुकृतादि जात्वनृतबुद्धिहतम् ॥ ९५

तदयं करोतु हयमेधशतान्यमितानि विप्रहननान्यथवा ।
परमार्थविन्न सुकृतैर्दुरितैरपि लिप्यतेऽस्तमितकर्तृतया ॥

अवधीत्तिशीर्षमददाच्च यतीन् व्रॄकमण्डलाय कुपितः शतशः ।
बत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बह्र्व्रॄचगीः ॥ ९७

बहुदक्षिणैरयजत ऋतुभिर्विबुधानतर्पयदसंख्यधनैः ।
जनकस्तथाऽप्यभयमाप परं न तु देहयोगमिति काण्ववचः ॥ ९८

न विहीयतेऽहिरिपुवद्दौरितैर्न च वर्धते जनकवत्सुकृतैः ।
न स तापमेत्यकरवं दुरितं किमहं न साध्वकरवं त्विति च ॥ ९९

तदनङ्गशास्त्रपरिशीलनमप्यमुनैव सौम्य करणेन कृतम् ।
न हि दोषकृत्तदपि शिष्टसरण्यवनार्थमन्यवपुरेत्य यते ॥

इति सत्कथाः स कथनीययशा भवभीतिभञ्जनकरीः कययन् ।
सुदुरासदं चरणचारिजनैर्गिरिशृङ्गमेत्य पुनरेव जगौ ॥ १०१

अधिसानु पश्यत विभाति गुहा पुरतःशिला समतला विपुला ।
सरसी च तत्परिसरेऽच्छजला फलभारनम्रतारम्यतटा ॥ १०२

परिपाल्यतामिह वसद्भिरिदं वपुरप्रमादमनवद्यगुणाः ।
अहमास्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥ १०३

इति शिष्यवर्गमनुशास्य यतिपवरो विसृष्टकरणोऽधिगुहम् ।
महिपस्य वर्म गुरुयोगबलोऽविशदातिवाहिकशरीरयुतः ॥ १०४