विवृतजघनं संदष्टोष्ठं प्रणुन्नपयोधरं
प्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेखलम् ।
निभृतकरणं नृत्यगात्रं गतेतरभावनं
प्रसृमरसुखं प्रादुर्भूतं किमप्यपदं गिराम् ॥ १५
मनसिजकलातत्त्वाभिज्ञो मनोज्ञविचेष्टितः
सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः ।
कृतकुचगुरूपास्त्याऽत्यन्तं सुनिर्वृतमानसो
निधुवनवरब्रह्मानन्दं निरर्गलमन्वभूत् ॥ १६
पुरेव भोगान् बुभुजे महीभृत्स भोगिनीभिः सहितोऽप्यरंस्त ।
कन्दर्पशास्त्रानुगतः प्रवीणैर्वात्स्यायने तच्च निरक्षैताद्धा ॥ १७
वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् ।
स्वयं व्यधत्ताभिनवार्थगर्भं निबन्धमेकं नृपवेषधारी ॥ १८
पारशर्यवनिभृति प्रविश्य राज्ञो वर्ष्मैवं विहरति तद्विलासिनीभिः ।
दृष्ट्वा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पुः ॥ १९
आचार्यैरवधिरकारि मासमात्रं सोऽतीतः पुनरपि पञ्चषाश्च घस्राः ।
अद्यापि स्वकरणमेत्य नः सनाथान् कर्तुं तन्मनसि न जायतेऽनुकम्पा ॥
किं कुर्मः क्व नु मृगयामहे क्व यामः को जानन्निह वसतीति नोऽभिदध्यात् ।
विज्ञातुं कथमिम्मीश्महे विचिन्त्याप्या सिन्धु क्षितितलमन्यगात्रगूढम् ॥
गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः ।
जगति क्व गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥ २२
निःशेषेन्द्रियजाड्यहृन्नवनवाह्लादं मुहुस्तन्वती ।
नित्याश्लिष्टरजोयतीशचरणाम्भोजाश्रया श्रेयसी ।
निष्प्रत्यूहविजृम्भमाणवृजिनस्योद्वासना वासना
नि:सीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥ २३
फलितैरिव सत्वपादपैः परिणामैरिव योगसम्पदाम् ।
समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयैः ॥ २४
पृष्ठम्:शङ्करदिग्विजयः.djvu/१११
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १०]
105
राजदेहप्रवेशादिकथनम्