पृष्ठम्:शङ्करदिग्विजयः.djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
106
[दशमः
श्रीमच्छङ्करदिग्विजये

सधनैर्निजलाभवैभवात् सकुटुम्बैरुपशान्तिकान्तया ।
अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभिः ॥ २५
अविनयं विनयन्नसतां सतामतिरयं तिरयन् भवपावकम् ।
जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥ २६
विगतमोहतमोहतिमाप्य यं विधुतमायतमा यतयोऽभवन् ।
अमृतदस्य तदस्य दृशः सृतवावतरेम तरेम शुगर्णवम् ॥ २७
शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिंधयः
क्षपान्धमतपान्थदुष्कथकदम्भकुक्षिंभरिः ।
कदा भवसि मे पुनःपुनरनाद्यविद्यातमः
प्रमृद्य गलितद्वयं पदमुदञ्चयन्नद्वयम् ॥ २८
मर्त्यानां निजपादपङ्कजजुषामाचार्य वाचा यया
रुन्धानो मतिकल्मषं त्वमिह किंकुर्वाणनिर्वाणया ।
द्राङ् नायास्यसि चेत्सुधीकृतपरीहासस्य दसस्य ते
दुःखान्तो न भवेदितीड्य स पुनर्जानीहि मीनीहि मा ॥ २९
इति खेदमुपेयुषि मित्रजने पतिपन्नयतिक्षितिभृन्महिमा ।
शुचमर्थवता शमयन्वचसा निजगाद सरोरुहपाद इदम् ॥ ३०
पर्याप्तं नः क्लैब्यमुपेत्यात्र सखायः कृत्वोत्साहं भूमिमशेषामपिधानात् ।
अन्वेष्यामो भूविवराण्यप्यथ च द्यां यद्वद्देवं देवमनुष्यादिषु गूढम् ॥ ३१
अनिर्विण्णचेताः समास्थाय यत्नं सुदुष्प्रापमप्यर्थमाप्नोत्यवश्यम् ।
मुहुर्विघ्नजालैः सुरा हन्यमाना सुधामप्यवापुर्ह्यनिर्विण्णचित्ताः ॥ ३२
यदप्यन्यगात्रप्रतिच्छन्नरूपो दुरन्वेषणः स्याद्गुरुर्नस्तथापि ।
खभानूदरस्थः शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्यः ॥ ३३
इक्षुचापागमापेक्षया निर्गतो वर्ष्म तस्योचितं कृष्णवर्त्मद्युतिः ।
विभ्रमाणां पदं सुभ्रुवां भूपतेः प्राप्तुमर्हत्यकामाग्रणी: संयमी ॥ ३४
नित्यतृप्ताग्रयाय्याश्रिते निर्वृताः प्राणिनो रोगशोकादिना नेक्षिताः ।
दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी स्वराण्मेदिनी कामसूः ॥