पृष्ठम्:शङ्करदिग्विजयः.djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १०]
109
राजदेहप्रवेशादिकथनम्

नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः ।
निरगमदचलेन्द्रकन्दरान्ताद्विधुरिव वक्त्रबिलाद्विधुन्तुदस्य ॥ ६०
तदनु शमधनाधिपो विनेयैश्चिरविरहादतिवर्धमानहार्दैः ।
सनक इव वृतः सनन्दनाद्यैर्जिगमिषुराजनि मण्डनस्य गेहम् ॥ ६१
तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्गलितक्रियाभिमानम् ।
विषयविषनिवृत्ततर्षमुच्चैरतनुत मण्डनमिश्रमक्षिपात्रम् ॥ ६२
तं समीक्ष्य नभश्च्युतं स च प्राञ्जलिः प्रणतपूर्वविग्रहः ।
अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषैः पिबन्निव ॥ ६३
स विश्वरूपो बत सत्यवादी पपात पादाम्बुजयोर्यतीशः ।
गृहं शरीरं मम यच्च सर्वं तवेति वादी मुदितो महात्मा ॥ ६४
प्रेयसा प्रथममर्चितं मुनिं प्राप्त विष्टरमुपस्थितं बुधैः ।
प्रश्रयावनतमूर्तिरब्रवीच्छारदाऽभिवदने विशारदा ॥ ६५
ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् ।
ब्रह्मणोऽधिपतिर्ब्रह्मन् भवान् साक्षात्सदाशिवः ॥ ६६
सदसि मामविजित्य तथैव यन्मदनशासन कामकलास्वपि ।
तदवबोधकृते कृतिमाचरस्तदिह मर्त्यचरित्रविडम्बनम् ॥ ६७
त्वया यदावां विजितौ परात्मन्न तत्त्रपामावहतीड्य सर्वथा ।
कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥ ६८
आदावात्म्यं धाम कामं प्रयास्याम्यर्हस्यच्छं मामनुज्ञातुमर्हन् ।
इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन् देवीं भाष्यकर्ता बभाषे ॥ ६९
जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् ।
वाचामाद्यां देवतां विश्वगुप्त्यै चिन्मात्रामप्यात्तलक्ष्म्यादिरूपाम् ॥ ७०
तस्मादस्मत्कल्पितेष्वर्च्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ।
इष्टानर्थानृष्यशृङ्गादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥ ७१