पृष्ठम्:शङ्करदिग्विजयः.djvu/१२

पुटमेतत् सुपुष्टितम्
6
[प्रथमः
श्रीमच्छङ्करदिग्विजये

दुष्टाचारविनाशाय धर्मसंस्थापनाय च ।
भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥ ४१

मोहनप्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः ।
चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवद्भुजैः ॥ ४२

यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले ।
मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥ ४३

तं मामनुसरिष्यन्ति सर्वे त्रिदिववासिनः ।
तदा मनोरथः पूर्णो भवतां स्यान्न संशयः ॥ ४४

ब्रुवन्नेवं दिविषदः कटाक्षानन्यदुर्लभान् ।
[]कुमारे निदधे भानुः किरणानिव पङ्कजे ॥ ४५

क्षीरनीरनिधेर्वीचिसचिवान् प्राप्य तान् गुहः ।
कटाक्षान्मुमुदे रश्मीनुदन्वानैन्दवानिव ॥ ४६

अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखरः ।
दन्तचन्द्रातपानन्दिवृन्दारकचकोरकः ॥ ४७

शृणु सौम्य वचः श्रेयो जगदुद्धारगोचरम् ।
काण्डत्रयात्मके वेदे प्रोद्धृते स्याद् द्विजोद्धृतिः ॥ ४८

तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् ।
तदधीनत्वतो वर्णाश्रमधर्मततेस्ततः ॥ ४९

इदानीमिदमुद्धार्यमितिवृत्तमतः पुरा ।
मम गूढाशयविदौ विष्णुशेषौ समीपगौ ॥ ५०

मध्यमं काण्डमुद्धर्तुमनुज्ञातौ मयैव तौ ।
अवतीर्याशतो भूमौ सङ्कर्षणपतञ्जली ॥ ५१

  1. कुत्सितो मारः यस्मात् , सः कुमारः । अथवा कुत्सितान् मारयतीति कुमारः
    इति धा कुमारशब्दनिर्वचनम् ॥