पृष्ठम्:शङ्करदिग्विजयः.djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
114
[एकादशः
श्रीमच्छङ्करदिग्विजये


वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाः
पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः ।
साक्षाद्ब्रह्मणि शङ्करे विदधति स्पर्धानिबद्धां मतिं
कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ॥ ११७
वाणी काणभुजी च नैव गणिता लीना क्वचित्कापिली
शैवं चाशिवभावमेति भजते गर्हापदं चार्हतम् ।
दौर्गं दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवं
निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतासूक्तिषु ॥ ११८
तथागतकथा गता तदनुयायि नैयायिकं
वचोऽजनि न चोदितो वदति जातु तौतातितः ।
विदग्धति न दग्धधीर्विदितचापलं कापिलं
विनिर्दयविनिर्दलद्विमतसङ्करे शङ्करे ॥ ११९
इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् ।
संक्षेपशङ्करजये सर्गोऽयं दशमोऽभवत् ॥ १० ॥
आदितः श्लोकाः 1148.

अथैकादशः सर्गः ॥११॥

उग्रभैरववधः ॥

तत्रैकदाच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः ।
निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥ १
असावपश्यन्मदनाद्यवश्यं वश्येन्द्रियाश्वैर्मुनिभिर्विमृग्यम् ।
आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनिं रहस्यम् ॥ २
दृष्दैव हृष्टः स चिरादभीष्टं निर्धार्थ संसिद्धमिव स्वमिष्टम् ।
महद्विशिष्टं निजलाभतुष्टं विस्पष्टपाचष्ट च कृत्यशिष्टम् ॥ ३
गुणांस्तवाकर्ण्य मुनेऽनवद्यान्सार्वज्ञ्यसौशील्यदयालुताद्यान् ।
द्रष्टुं समुत्कण्ठितचित्तवृत्तिर्भवन्तमागां विदितप्रवृत्तिः ॥ ४