पृष्ठम्:शङ्करदिग्विजयः.djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ११]
115
उग्रभैरववधः

त्वमेक एवात्र निरस्तमोहः पराकृतद्वैतिवचःसमूहः ।
आभासि दूरीकृतदेहमानः शुद्धाद्वये योजितसर्वमानः ॥ ५
परोपकृत्यै प्रगृहीतमूर्तिरमर्त्यलोकेष्वपि गीतकीर्तिः ।
कटाक्षलेशार्दितसज्जनार्तिः सदुक्तिसम्पादितविश्वपूर्तिः ॥ ६
गुणाकरत्वाद्भुवनैकमान्यः समस्तवित्त्वादभिमानशून्यः ।
विजित्वरत्वाद्गलहस्तितान्यः स्वात्मप्रदत्वाच्च महावदान्यः ॥ ७
अशेषकल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु ।
कार्यार्थिनः क्वाप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ॥ ८
तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविदा त्वयाऽद्य ।
कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥ ९
अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् ।
अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरब्दशतं समग्रम् ॥ १०
तुष्टोऽब्रवीन्मां गिरिशः पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् ।
जुहोषि चेत्सर्वविदः शिरो वा हुताशने भूमिपतेः शिरो वा ॥ ११
एतावदुक्त्वाऽन्तरधान्महे शस्तदादि तत्संग्रहणे धृताशः ।
चराम्यथापि क्षितिपो न लब्धो न सर्ववित्तत्र मयोपलब्धः ॥ १२
दिष्ट्याऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् ।
इतःपरं सेत्स्यति मेऽनुवन्धः संदर्शनान्तो हि जनस्य बन्धः ॥ १३
मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः ।
आद्यं पुनर्मे मनसाऽप्यलभ्यं ततःपरं तत्रभवान् प्रमाणम् ॥ १४
शिरःप्रदानोऽद्भुतकीर्तिलाभस्तवापि लोके मम सिद्धिलाभः ।
आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ॥ १५
तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वशरीरमुज्झतु ।
भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥ १६