पृष्ठम्:शङ्करदिग्विजयः.djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
118
[एकादशः
श्रीमच्छङ्करदिग्विजये

सटाच्छटास्फोटितमेघसंघस्तीव्रारवत्रासितभूतसंघः ।
संवेगसंमूर्च्छितलोकसंघः किमेतदित्याकुलदेवसंघः ॥ ४०
क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् ।
ज्वलद्दिशान्तं प्रचलद्धरान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥ ४१
जवादभिद्रुत्य शितस्वरूग्रैर्दैत्येश्वरस्येव पुरा नखाग्रैः ।
क्षिपत्त्रिशूलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥ ४२
तत्ताद्दगत्युग्रनखायुधाग्र्यो दंष्ट्रान्तरप्रोतदुरीहदेहः ।
निन्ये तदानीं नृहरिर्विदीर्णद्युपट्टनाट्टालिकमट्टहासम् ॥ ४३
आकर्णयंस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः ।
व्यलोकयन् भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥ ४४
प्रह्रदक्श्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति ।
सविस्मयैः स्निग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५
पुरा किलाहं बलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् ।
भक्तैकवश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥ ४६
किमर्थमेको गिरिगह्वरेऽस्मिन् वाचंयम त्वं वससीति शश्वत् ।
केनापि पृष्टोऽत्र किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥ ४७
आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीरवात्मा परतश्च कश्चित् ।
मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपथे कदापि ॥ ४८
इतीरयत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् वनान्तम् ।
निबध्य गाढं नृहरिं लताभिः पुण्यैरगण्यैः पुरतो न्यधान्मे ॥ ४९
महर्षिभिस्त्वं मनसाप्यगम्यो वनेचरस्यैव कथं वशेऽभूः ।
इत्यद्भुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥ ५०
एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातृमुखैर्न पूर्वैः ।
नोपालभेथास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तिरोधिम् ॥ ५१