पृष्ठम्:शङ्करदिग्विजयः.djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
120
[एकादशः
श्रीमच्छङ्करदिग्विजये


दितिजसूनुममुं व्यसनार्दितं सकृदरक्षदुदारगुणो भवान् ।
सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ॥ ६४
सृजसि विश्वमिदं रजसाऽऽवृतः स्थितिविधौ श्रितसत्व उदायुधः ।
अवसि तद्धरणे तमसाऽऽवृतो हरसि देव तदा हरसंज्ञितः ॥ ६५
तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् ।
तव पदं खलु वाङ्मनसातिगं श्रुतिवचश्चकितं तव बोधकम् ॥ ६६
नरहरे तव नामपरिश्रवात् प्रमथगुह्यकदुष्टपिशाचकाः ।
अपसरन्ति विभोऽसुरनायका न हि पुर:स्थितये प्रभवन्त्यमी ॥ ६७
त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता नृहरेऽखिलस्य ।
त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥ ६८
हतो वराको हि रुषं नियच्छ विश्वस्य भूपन्नभयं प्रयच्छ ।
एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥ ६९
द्रष्टुं न शक्या हि तवानुकम्पाहीनैर्जनैर्निह्नुतकोटिशंपाम् ।
मूर्तिं तदात्मन्नुपसंहरेमां पाहि त्रीलोकीं समतीतसीमाम् ॥ ७०
कल्पान्तोज्जृम्भमाणप्रमथपरिवृढप्रौढलालाटवह्नि-
ज्ज्वालालीढत्रिलोकीजनितचटचटाध्वानधिक्कारधुर्यः ।
मध्ये ब्रह्माण्डमाण्डोदरकुहरमनैकान्त्यदुःस्थामवस्थां
स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीनृसिंहाट्टहासः ॥ ७१
मध्ये व्यानद्धवातंधयवलनाधानमन्थानभूभृ-
न्मन्थेनोत्क्षिप्तदग्धोदधिलहरिमिथःस्फालनाचारघोरः ।
कल्पान्तोन्निद्ररुद्रोच्चतरडमरुकध्वानबद्धाभ्यसूयो
घोषोऽयं कर्णघोरः क्षपयतु नृहरे रंहसां संहतिं नः ॥ ७२
क्षुन्दानो मंक्षु कल्पावधिसमयसमुज्जृम्भदम्भोदगुम्भ-
स्फूर्जद्दंभोलिसंघस्फुरदुरुरटिताखर्वगर्वप्ररोहान् ।
क्रीडाकोडेन्द्रघोणासरभसविसरद्धोरघूर्घोरवश्री-
गम्भीरस्तेऽट्टहासो हर हर नृहरे रहंसाऽहांसि हन्यात् ॥ ७३